________________
22
ननु सिद्धावस्थायाः सादित्वे तादृशेन पुरुषेण भवितव्यं यः प्रथमतया सिद्धः । तत् कः स इति चेत् ? शृणु, सिद्धत्वस्य पुरुषापेक्षया सादित्वेऽपि प्रवाहतोऽनादित्वमेव । नित्यं सूर्योदयेन साकं चतुर्विंशतिहोरात्मको दिवसरूप: कालविशेष आरभ्यते । एवं दिवसः सादिः । तथापि यथा न वक्तुं शक्यते यत् प्रथमो दिवस: कस्तथाऽत्रापि बोद्धव्यम् ।
मुक्तावात्मस्वरूपमनन्तज्ञानसुखादिमयम् । क्षायिकाः (=कर्मक्षयजन्या) एव भावा अत्राऽवशिष्टा भवन्ति । न पुनः क्षायोपशमिकाः (कर्मणामेकस्यांऽशस्य क्षयेन तदितरांशस्य चोपहतशक्तीकरणेन जन्याः) औपशमिकाः (कर्मणां सर्वांशेनोपहतशक्तीकरणेन जन्याः) औदयिकाः (कर्मोदयजन्याः) वा । पारिणामिकास्तु (सहजाः) भव्यत्वं विहाय जीवत्वानाद्यनन्तत्वारूपित्वगुणाधारत्वासङ्ख्यप्रदेशवत्त्वादयस्तथावस्था एव । भव्यत्वमर्थात् सिद्धिगमनयोग्यत्वं पुनः स्वफलं दत्त्वा विनिवर्तते । तथापि सिद्धिगमनायोग्यताऽपि न येनाऽभव्या इत्युच्येरन्नतः सिद्धा 'नो भव्या नो अभव्या' इति शास्त्रे उच्यते । एवंरीत्यैव चारित्रस्याऽर्थः 'चारात्=कारागृहसदृशसंसारात् त्रायते' इति तत्सदृशो वा कश्चित् क्रियते तर्हि तदपेक्षया 'नो चारित्री नो अचारित्री' इत्युच्यते । अत्र मुक्तौ ज्ञानं नाऽस्तीति ज्ञानस्येन्द्रियादिसापेक्षत्वप्रकृतिजन्यत्वाद्यङ्गीकुर्वतां नैयायिकादीनां कथनं सुखवदेव सङ्गमनीयम् । आत्मनो ज्ञानराहित्ये आत्मा पाषाणकल्प एव भवेद्-ज्ञानस्यैव जडचेतनभेदकत्वादिति न विस्मर्त्तव्यमत्र ।
यद्यपि मोक्षमिमं विशुद्धतमात्मिकपरिणत्या प्रबलपुरुषार्थेन च सर्वे जीवा अधिगन्तुं शक्तास्तथापि तदर्थं कानिचित् सहकारिकारणान्यावश्यकानि । तानि मुख्यत इमानि–मनुष्यगतिः, मोक्षगतियोग्यः कालः, श्रेष्ठतमं शारीरमानसबलम्, तीव्रनिकाचितकर्माभावश्च । वस्त्रधारणे स्त्रीदेहे वा सति मोक्षोऽसम्भव्येवेति कदाग्रहग्रहिला दिगम्बरजैना अत्र नग्नत्वं पुंल्लिङ्गत्वं चाऽपि निवेशयन्ति । कस्मिंश्चिदपि वेषभूषादौ रागद्वेषविलयतो मोक्षसम्भावनां स्वीकुर्वद्भिः, स्त्रीणां मोक्षविषये पुरुषतुल्यसामर्थ्य चोररीकुर्वद्भिः श्वेताम्बरजैनैस्तन्मतं विस्तरतः खण्डितमेवेति नेह प्रतन्यते ।
मोक्षस्याऽस्य प्ररूपणा पूर्वावस्थापेक्षया तीर्थसिद्धादिपञ्चदशभेदत इदानीन्तनावस्थापेक्षया क्षेत्राद्यनुयोगत उभयावस्थापेक्षया च चतुर्दशमार्गणात क्रियते । परं तदवगमार्थं जैनपारिभाषिकशब्दानां जैनशास्त्रीयपदार्थानां च विशदज्ञानस्याऽपेक्षा भवतीति नेह प्रदर्श्यते ।
वस्तुतो मुक्तिरियमतीन्द्रिया वचनातीता तर्काग्राह्या मनोऽग्राह्या चेत्यत्र सर्वेषां दार्शनिकानां सम्मतिः । यतः संसारस्थानामस्माकं बुद्धिवचनव्यवहारविकल्पादि सर्वमपि १. दृश्यतां स्त्रीमुक्ति-केवलिभुक्तिप्रकरणम् । २. नवतत्त्व०-४३-५९