________________
घटनाशाद्धटसंयोगनाशे च शुद्धाकाश इति कथ्यते । एवं सति गगनस्य या शुद्धता घटनाशे प्रादुर्भूता, तस्याः कृतकत्वमननं कथं समीचीनं स्यात् ? सा तु मुद्गरप्रहारेण न जन्या किल? तन्नाम शुद्धाया व्यक्तेविशेषणसत्त्वे वैशिष्ट्यभाक्त्वेऽपि न शुद्धता व्याहन्यते । अन्यथा विशेषणाननुसन्धानदशायां वैशिष्ट्यस्याऽबोधात् शुद्धव्यक्तेश्चाऽसत्त्वादनवबोध एव विलसेत् । न च तथाऽनुभूयते इति वैशिष्ट्यं सादि स्यादनादि वा, शुद्धता त्वनादिरेव भवेदिति । अथ चाऽऽत्मनः शुद्धावस्थैव मुक्तिः । शुद्धतेयं कर्मसंयोगवैशिष्ट्यकालेऽप्यासीदेव । यदा च तपोध्यानादिना तद् वैशिष्ट्यं नष्टं तदा पूर्वतो विद्यमाना शुद्धतैवाऽवशिष्टा । तथा चेदानीं स मुक्त इति व्यवहारः, वैशिष्ट्यराहित्यकालीनशुद्धावस्थावदात्मन एव लोके मुक्तत्वाङ्गीकारात् । न च तावता शुद्धतेयं कृतकेति वक्तुं पार्यते इति कृतकत्वाभावाद् यत् कृतकं तदनित्यमिति व्याप्तेः सिद्धत्वेऽपि न दोषः । २. पर्यायाणां यत् क्षणस्थायित्वमुक्तं तद् येषां पर्यायविशेषाणामवान्तरपर्याया न सम्भवन्ति, तानपेक्ष्यैव, न पुनरवान्तरपर्यायसन्तानाधारपर्यायाणामपि क्षणस्थायित्वमभिमतम् । तथाहि-घटो नाम मृदः पर्यायविशेष एव । तथापि घट: क्षणस्थायीति न कथ्यते, अनुभावापलापापत्तेः । एवं सत्यपि यत् प्रतिसमयमुत्पादविनाशयुक्तत्वं घटस्य प्रतिपादितं, तत् प्रथमसमयघट-द्वितीयसमयघटादि-घटपर्यायावान्तरपर्यायविशेषापेक्षयैवेति पर्यायाणामक्षणभङ्गरत्वेऽपि दोषानावहत्वात् सिद्धत्वपर्यायोऽप्यनन्तकालस्थायी सम्भवेदेव । ३. प्रथमसमयसिद्ध-द्वितीयसमयसिद्धाद्यवान्तरपर्यायापेक्षया यद्यपि सिद्धावस्थायाः क्षणभङ्गरत्वमस्त्येव, तथापि सिद्धावस्थाया आनन्त्येऽप्यात्मनः सिद्धावस्थारूप एक एव पर्यायस्तु नाऽस्ति, येन तत्पर्यायानाशे आत्मनः सर्वथा ध्रौव्यमेवाऽऽपतेत् । अर्थाद् ज्ञान-दर्शन-चारित्राद्यनन्तानन्तपर्यायाणामाधारीभूतमात्मद्रव्यम् । तत्र ज्ञानपर्यायो गृह्यते चेत्तत् प्रतिसमयं विषयाणां परावृत्तेः परिवर्तते । द्रव्यपर्याययोश्च कथञ्चिदभिन्नत्वमेव स्वीकृतं स्याद्वादे इति ज्ञानपर्यायगतोत्पादविनाशयोर्द्रव्यस्थत्वविवक्षायामात्मन उत्पादव्ययध्रौव्ययुक्तत्वात्मकं सत्त्वं युक्तियुक्तमेव । ४. सर्वथा मोहापगमे एव सिद्धत्वमन्यथा मोहसत्त्वेऽपि सिद्धत्वाङ्कीकारे संसारिसिद्धयोरविशेष एव स्यात् । ततश्च मोहविकारात्मिकाया इच्छायाः कथं मुक्तौ सम्भव:१ ? सर्वे जीवाः स्वकृतं कर्मैव वेदयन्तीति, भवितव्यतानुरूपं च सर्वं प्रचलतीति यो ज्ञानचक्षुषा पश्यति तस्य कथं सामीचीन्यसम्पादनार्थं संसारावतरणेच्छा ? कथं वा सर्वातिशायिकरुणालोनिग्रहाकाङ्क्षा ? किञ्च, सिद्धस्य भवोपग्राहि कर्म क्षीणमक्षीणं वा? अक्षीणं चेत् कथं स मुक्तः ? क्षीणं चेत् कथं भवोपग्रह: ? कारणस्य विनष्टत्वादिति । १. दग्धेन्धनः पुनरुपैति भवं प्रमर्थ्य, निर्वाणमप्यनवधारितभीरनिष्टम् ।
मुक्तः स्वयं कृततनुश्च परार्थशूरस्त्वच्छासनप्रतिहतेष्विह मोहराज्यम् ।।-सिद्धसेनद्वात्रिंशिका