________________
20
भ्रामितत्यक्तकुलालचक्रवत् । असङ्गात्-जले निमग्नस्य मल्लिप्तालाबुनो मृल्लेपापगमे ऊर्ध्वस्तरसम्प्राप्तिवत् । बन्धच्छेदत्वात्-एरण्डस्य प्रयत्नेन त्वक्छेदने तत्स्थबीजस्य स्वयमुल्लङ्घनवत् । जीवस्योर्ध्वगमनस्वभावत्वाच्च-अग्निज्वालावत् । ननु जीवस्योर्ध्वगमनस्वभावत्वे कथं संसारिणामधस्तिर्यग्गमने दृश्येते ? कर्मसम्बन्धन तत्स्वभावस्योपहतत्वादेव । अथ जीवस्योर्ध्वं स्वयंगमनसामर्थेऽपि यथा जलं तत्रोपगृह्णाति, एवं जीवस्य स्वयंगमनसामर्थ्येऽपि गमनमात्रे धर्मास्तिकायोपग्रहावश्यकता । धर्मास्तिकायश्च लोके एवेति गत्युपग्राहकाभावान्न जीवस्य लोकाद् बहिर्गतिः ।
जीवस्य शरीरव्यापित्वं जैनमते स्वीकृतम् । यावान् देहो भवति, स पुनः कीटकस्य वा स्यात् कुञ्जरस्य वा स्यात्, आत्मप्रदेशसङ्ख्याया समानत्वमेव । प्रदीपस्य लघुबृहच्छरावस्थत्वेऽपि प्रकाशमात्रायाः समानत्वमत्र निदर्शनीभूतम् । चरमे मनुष्यभवे यावत्यवगाहना स्यात् ततस्त्रिभागोनावगाहना मुक्तावात्मनो भवति - मुक्तिसन्निधिकाले आत्मप्रदेशानां घनीभवनात् । संस्थानं त्वन्तिमशरीरावस्थातुल्यमेव भवति मूषानिर्गतसिक्थकवत् । सिद्धिक्षेत्रे तावदवगाहनावतामात्मनां परस्परमभिव्याप्य स्थितिः । येष्वाकाशप्रदेशेष्वेक आत्माऽवगाढः, तेष्वेव प्रदेशेष्वपरेऽनन्ता आत्मानोऽवगाढाः । न्यूनाधिकप्रदेशेष्वनन्तानन्ताः । तथापि न तेषां बाधा-अमूर्तत्वात् । एकस्मिन्नेव स्थानेऽनेकप्रदीपप्रकाशस्य स्थितिरत्र दृष्टान्तीभवति ।
__ अत्र केचन विविधमतावेशतोऽनन्तकालं यावत् सिद्धावात्मनोऽवस्थानं नाऽङ्गीकुर्वन्ति । तत्प्रदर्शिता मुख्या युक्तय इमाः- १. मोक्षस्योत्पत्तिमत्त्वे सति विनाशित्वमपि भवेद्, यत् कृतं तदनित्यमिति व्याप्तेः । २. सिद्धावस्थाऽऽत्मनः पर्यायविशेष एवाऽभिमतः । पर्यायस्य च क्षणस्थायित्वमेव वणितं शास्त्रे इति सिद्धत्वं कथमनन्तकालस्थायि भवेत् ? ३. उत्पादव्ययध्रौव्ययुक्तत्वमेव सत्त्वमभिमन्यते जैनैः । तच्च द्रव्यस्याऽवस्थातोऽवस्थान्तरसर्पणे एव सम्भवि । सिद्धस्य सिद्धावस्थाध्रौव्ये कथमुत्पादव्ययसम्भवः ? ४. सिद्धानां संसारे सर्वं सम्यगेव भवेदिति प्रबलेच्छा । अनन्तशक्तिसम्पन्नत्वाच्च तत् कर्तुं ते शक्ताः । ततः स्वस्थापिततीर्थनिकारादिकारणतो दुष्टादुष्ट-निग्रहानुग्रहसम्पादनार्थं ते कथं पुनः संसारे नाऽवतरेयुः?
अवबोधसमाधेया इमा विप्रतिपत्तय इति जैनाः । १. यत् कृतकं तदनित्यमिति व्याप्तिरसिद्धा । ध्वंसस्य कृतकत्वे सत्यप्यविनाशित्वमेवाऽभिमतम् । एवं सति कर्मध्वंसरूपमोक्षस्य सैव स्थितिरित्यत्र का बाधा ? अन्यच्च, मोक्षस्य सर्वथा कृतकत्वमपि न । तथाहि-गगनस्य घटसंयोगदशायां घटसंयुक्तत्वविशिष्टाकाश इत्युच्यते । मुद्गरादिना