________________
19
सुखदुःखयोर्द्वन्द्वमेव, तच्च न मोक्षे इतीह तात्पर्यम् । एवं च स्मृतिस्थसुखशब्दस्य दुःखाभावे लक्षणाऽपि कर्तव्या न भवति । मुक्तानामिदं प्रियमिदमप्रियमित्यादिबन्धनानि न भवन्तीत्यप्यर्थोऽत्र सुशक एव ।
सिद्धा तावत् परमानन्दार्थितया मोक्षार्थं प्रवृत्तिरिति ।
अथ कृत्स्नकर्मक्षयात्मकमोक्षप्राप्तिप्रक्रियाऽतिसङ्क्षिप्ततया प्रदर्श्यते । आत्मनः सहजं स्वरूपं सर्वथा विशुद्धं सदपि तत्तद्गुणाच्छादककर्मसंयोगेन मलिनीभूतं भवति । ततश्चाऽऽत्मनोऽनन्तगुणानां स्वामित्वेऽपि न ते गुणाः प्रादुर्भवन्ति । आत्मनः सर्वज्ञत्वं सर्वदर्शित्वं सम्यक्त्वमनन्तचारित्रमनन्तवीर्यमनन्तसुखमित्याद्या गुणाः स्वरूपप्रतिष्ठापकत्वाद् मूलगुणा उच्यन्ते । यान्यशुभकर्माण्येतानावृण्वन्ति तान्यात्मविकासबाधकानीति घातीन्युच्यन्ते। अक्षयस्थितिरमूर्तत्वमगुरुलघुत्वमित्याद्यन्यगुणान् यान्याच्छादयन्ति तानि च भवस्थितिमात्रनिबन्धनानीत्यघातीनि कथ्यन्ते ।
आत्मा तत्तच्छुभवृत्तिप्रवृत्तिद्वारा परिणतिं विशोध्य कर्माणि यथा यथाऽपनयति तथा तथाऽऽच्छादिता गुणाः प्रकटीभवन्ति । कर्मणामपनयनं च तदागमनहेतुप्रमादादिनिरोधेन पूर्वोपार्जितानां च परिशाटनेन । यदा जीवो घातिकर्माणि निर्मूलमपनयति तदा केवलज्ञानं प्रादुर्भवति । महात्माऽयं सर्वज्ञः सर्वदर्शी विशुद्धसम्यक्त्वी सर्वोत्तमचारित्र्यनन्तवीर्यसम्पन्नश्च भवति । मोक्षे भवे च निर्विशेषमतिरसौ भवस्थितिनिबन्धनानि कर्माणि सहजं वेदयति । रागद्वेषद्वन्द्वातीतोऽयं जीवन्मुक्त उच्यते । उपदेशादिना लोकोपकार एव महापुरुषस्याऽस्य प्रधानं कृत्यं भवति ।
आयुः कर्मणि क्षीणप्राये निर्वाणकाले सन्निहिते सति महात्माऽसौ योगप्रक्रियया मनोवाक्काययोगान्निरुध्याऽन्येषामपि कर्मणां क्षयमापाद्याऽन्ते शरीरबन्धनं त्यक्त्वा सिद्धिक्षेत्रं गच्छति । लोकस्योपरितनभागे परमशुभाऽधोमुखीकृतच्छत्राकारेषत्प्राग्भारानामिका वसुधा समस्ति । सिद्धानां भूमिरेषा सिद्धशिलेत्युच्यते । इयं नृलोकतुल्यविष्कम्भाऽस्ति, यत आत्मा येष्वाकाशप्रदेशेषु मुक्तो जातः, ऊर्ध्वायतास्तत्प्रदेशश्रेणीरत्यजन् प्रदेशान्तरमस्पृशन्नेवोर्ध्वं गच्छति, मुक्तिप्रापणयोग्यं क्षेत्रं तु सकलनृलोकमिति । वसुधाया अस्या योजनमात्रमुपरि गते सति लोकान्तः । सिद्धा लोकान्तं शिरसा स्पृशन्त इव तिष्ठन्ति । तन्नाम न ते सिद्धशिलाधिष्ठिताः, तथापि सा भूमिः समीपतमेतिकृत्वाऽऽधारक्षेत्रतया विवक्ष्यते । सिद्धाः कथमत्रैव न तिष्ठन्तीति चेत् ? प्रयोजनाभावाद् बन्धनाभावाच्च । गतिश्च प्रयत्नपूर्विका, प्रयत्नश्च शरीराधीन इति मुक्तानां शरीराभावे कथमूर्ध्वगतिरिति शङ्का भवितुमर्हति । तथापि सा न युक्ता - शरीराभावेऽपि गतेः सम्भवस्य दर्शितत्वात् । तथाहि - पूर्वप्रयोगाद्