________________
18
नैयायिककथनमपि न जैनानामस्वारस्यविषयं, गौणतया तादृशसुखस्याऽपि मुक्तौ तैरभ्युपगमात् । उभयोरन्तरं त्वेतदेव यद् नैयायिकैरात्मगुणाः शरीरादिकारणेभ्यो जन्या एव मताः, जैनैस्तु परसान्निध्ये जन्याः परविरहे प्रादुर्भाव्याश्च । तथाचैतज्जैनानां चिकथयिषितंमुक्तौ कारणविरहाज्जन्यगुणानामभावः कामं भवतु, परं परविरहे प्रादुर्भूयमानानामभावमापादयितुं कथं शक्येत ? पुण्यविपाकजं सुखं तत्र न स्यादिति को वा सुधीर्नाऽनुमनुते ? परं स्वाभाविकमपि प्रशमसुखं तत्र न स्यादिति कथं प्रसह्याऽप्युररीकर्त्तव्यम् ? आवरणापगमे आवृतमनावृतं न भवतीति चेदावरणापगमस्यैव कोऽर्थः ? वस्तुतः पुण्येन प्राप्यमाणं सर्वमपि शरीरेन्द्रियाह्लादकमेव, न पुनरात्मनस्तस्मात् कोऽपि लाभः । आत्मसुखं तु न तृष्णापूर्ती, प्रत्युत तृष्णाशान्तौ । सुखमात्रं पुण्यजन्यमिति कदाग्रह एव-द्वन्द्वशान्तौ विलक्षणसुखस्य सर्वैरप्यनुभूयमानत्वात् ।
साङ्ख्याः सुखं प्रकृतिविकारं मत्वाऽऽनन्दादिराहित्यस्वभावस्य पुरुषस्य मुक्तौ सुखाभावमङ्गीकुर्वन्ति । वैदिकानां तेषाम् 'आनन्दं ब्रह्मणो रूपं तच्च मोक्षेऽभिव्यज्यते' इति श्रुतेविरोधरूपो महान् दोषः । किञ्च, मुक्तौ पुरुषस्य सर्वबाधाविरहितत्वं शुद्धचिच्छक्तिमत्त्वं च तैरपि स्वीकृतम् । एवं सति किं नामाऽवशिष्टं येन मोक्षे सुखं न सम्भवेत् ? न हि नाम स्वच्छज्ञातुः स्वनिष्ठबाधाराहित्यज्ञानाद् व्यतिरिक्तं परमं सुखम् । कर्मप्रकृतिजन्यं सुखं तत्र नाऽस्तीति जैनकथनं साङ्ख्यमन्तव्यं संवदत्यपि ।
अथ ये केऽपि वादिनो मोक्षे सुखसत्त्वं नाऽङ्गीकुर्वन्ति तेषां सर्वेषां समक्षं 'सुखहानेरनिष्टत्वाद् बलवदनिष्टत्वप्रतिसन्धानतो मोक्षार्थं प्रवृत्तिरेव न स्या'दिति महत्यापत्तिः । 'वैराग्यवतामेव मोक्षेऽधिकारः, सुखेप्सायां च वैराग्यव्याहतिः, ततो न मोक्षस्य सम्भव' इत्यापत्तिं ते यद्यपि परेभ्यो ददति, 'दुःखं मा भू' दितीच्छयैव मोक्षार्थमुद्यम' इति कथयन्तः स्वात्मानमुद्धरन्ति च, तथापि दुःखविषयककषायकालुष्ये सति जायमाना वैराग्यव्याहतिर्नैव तेषां दृष्टिपथमुपयातीति महदाश्चर्यम् । शान्तिसुखस्येच्छाऽपि वैराग्यघातिकेति गुरुपरम्परालब्ध तत्त्वरहस्यमपि तैः स्वशिष्यान् प्रत्येव बोधयितुं शक्येत !
मुक्तौ सुखाभाववादिनो यद्यपि 'अशरीरं वावसन्तं प्रियाप्रिये न स्पृशत' (छन्दो० ८.१२.१) इति श्रुतिं प्रमाणतयोपस्थापयन्ति, सुखदुःखयोरुभयोरभावस्य प्रतिपादयित्रीयं श्रुतिरिति मन्यन्ते च, तथापि 'सुखमात्यन्तिकं यत्र बुद्धिग्राह्यमतीन्द्रियम् । तं वै मोक्षं विजानीयात्' इति स्मृतिवचनं सा श्रुतिर्न बाधेत, तथैव तदर्थो विचारणीयः । स चाऽयंघटासत्त्वे पटे सत्यपि यथा 'घटपटौ न स्त' इति व्यवहारः प्रामाणिकः, तथैव दुःखासत्त्वमात्रेण सुखे सत्यपि 'सुखदुःखे न स्त' इति प्रतिपाद्यते श्रुत्या । संसारे सदैव