________________
मन:स्थिरीकरणप्रकरणम्
४९
इत्येक आलापकः। तथा गर्भजजलस्थलखचरोएगाभुजसर्पदण्डकेषु पञ्चस्वपिछव्विहसंठिया पण्णत्ता। (जीवाभिगम प्र.१, सूत्र-३८) मनुष्यदण्डकेऽपि- छव्विहसंठिया (छस्संठाणा इति- जीवाभिगम प्र.१, सूत्र-४१) नारकदण्डके
तेसि णं भंते ! जीवाणं सरीरा किंसंठिया पन्नत्ता ? गोयमा ! दुविहा पन्नत्ता। तं [जहा] भवधारणिज्जा य उत्तरवेउव्विया य। तत्थ णं जे ते भवधारणिज्जा ते हंडसंठिया। तत्थ णं जे ते उत्तरवेउव्विया ते वि हुंडसंठिया पन्नत्ता। (जीवाभिगम प्र.१, सूत्र-३२)
देवदण्डकेकिं संठिया पन्नत्ता ? गोयमा ! दुविहा पन्नत्ता। तं जहा भवधारणिज्जा य उत्तरवेउव्विया य। तत्थ णं जे ते भवधारणिज्जा ते समचउरंससंठिया पन्नत्ता। तत्थ णं जे ते उत्तरवेउव्विया ते नाणासंठाणसंठिया।। (जीवाभिगम प्र.१, सूत्र-४२) अथावगाहनाद्वारम्। तत्रोत्तरार्द्धम्
मूल] अवगाहो तणुमाणं, उरले तह दुविह विउव्वे य ।।६५।। व्याख्या] अवगाहस्तनुमानम्। तत्र सङ्ग्रहण्यामवगाहनाद्वारव्याख्याने शरीरप्रमाणस्योक्तत्वाद् अत्रावगाहः तनुमानमिति पर्यायोऽदायि। तच्च द्विधा जघन्यमुत्कृष्टं च। तच्च द्विधापि पुनर्विषयभेदात् त्रिधा। तद्यथाऔदारिकशरीरविषयम्, भवधारिवैक्रियविषयम्, उत्तरवैक्रियविषयं चेति। अर्थतत्तनुप्रमाणं पृथिव्यादिषु मनुजान्तेषु द्विविधमपि गाथाद्वयेनाह[मूल] पुढवाइकार लहुयं, उरलं भूदग्गिमरुसु गुरुयं पि ।
अंगुलअसंखभागो, अह गुरुजोयणसहस्सहियं ।।६६।। तरुसुं विगले जोयण, बारसकोसतिग जोयणं एक्कं ।
समणामणतिरि जोयणसहसं मणुएसु कोसतिगं ।।६७।। व्याख्या] पृथिव्यादिषु मनुजान्तेषु एकादशसु गृहेषु जघन्यमौदारिकशरीरप्रमाणम्। तथा भूदकाग्निवायुषु उत्कृष्टमपि शरीरप्रमाणम् अङ्गुलासङ्ख्येयभागमात्रम्। केवलमसङ्ख्येयस्यासङ्ख्येयभेदत्वात् जघन्यशरीरसम्बन्धिनोऽ मुलासङ्ख्येयभागादुत्कृष्टशरीरसम्बन्धी अङ्गुलासङ्ख्येयभागोऽसङ्ख्यातगुणो द्रष्टव्यः। अत्र च सूक्ष्माणां च बादरानां च पृथिव्यादीनां पञ्चानां प्रत्येकतरुवर्जितानां शरीरप्रमाणं लघुसङ्ग्रहिण्यामेवमभ्यधायि।
अंगुलअसंखभागो, सुहुमनिगोओ असंखगुणि वाऊ। तो अगणि तओ आऊ, तत्तो सुहुमा भवे पुढवी।।
(लघुसङ्ग्रहणी-२२४) तो बायर-वाय-अगणी-आऊ-पुढवी-निगोय अणुकमसो। पत्तेयवणसरीरं, अहियं जोयणसहस्सं तु॥
(लघुसङ्ग्रहणी-२९४) द्वेधा वनस्पतिः प्रत्येकः साधारणश्च। साधारणो निगोदोऽनन्तकायिक इत्येकार्थाः। तत्र प्रत्येको बादर एव, पृथिव्यप्तेजोवायुनिगोदास्तु सूक्ष्मा बादराश्च। तत्राद्यं तयोर्निगोदपृथिव्योः सूक्ष्मविशेषणात्तदन्तवर्तिनां वाय्वग्निजला