________________
मन:स्थिरीकरणप्रकरणम्
नामपि सूक्ष्मानां ग्रहणादयमर्थः- सूक्ष्मनिगोदशरीरमङ्गुलासङ्ख्येयभागः अङ्गुलासङ्ख्यातभागप्रमाणमित्यर्थः। तदसङ्ख्यातगुणमेकं सूक्ष्मवायुकायिकशरीरम्। ततोऽसङ्ख्यातगुणमेकं सूक्ष्मतेजस्कायिकशरीरम्। ततोऽसङ्ख्यातगुणमेकं सूक्ष्माप्कायिकशरीरम्। ततोऽप्यसङ्ख्यातगुणमेकं सूक्ष्म पृथ्वीकायिकशरीरम्। ततोऽप्यसङ्ख्यातगुणमेकं बादरवायुशरीरम्। ततोऽप्यसङ्ख्यातगुणमेकं बादराग्निशरीरम्। ततोऽप्यसङ्ख्यातगुणमेकं बादराप्कायशरीरम्। ततोऽप्यसङ्ख्यातगुणमेकं बादरपृथ्वीशरीरम्। तस्मादप्यसङ्ख्यातगुणमेकं बादरनिगोदशरीरम्। स्वस्थाने तु सर्वाण्यप्यङ्गुलासङ्ख्येयभागमात्राणीति।
तहेवेत्यादि। तथैव- योजनसहस्रं समधिकम्। तरुसुमित्युत्तरगाथावयवेन सम्बन्ध इति प्रथमगाथार्थः।।६६।।
अथ द्वितीया- तरुसुमित्यादि। व्यक्ता च। नवरमिह सङ्ग्यसञ्चितिर्यक्षु द्वारद्वयेऽपि सामान्येन योजनसहस्रमुक्तम्। विशेषः पुनरयम्
जलथलउरभुयपक्खिसु, तणुमाण मुच्छिमेसु जहकमसो। जोयणसहस्स-गाउय-जोयण-धणुधणुपुहत्ताई। जोयणसहस्समेगं, गाउयछक्कं च जोयणसहस्सं। कमसो सन्निसरीरं, कोसपुहुत्तं धणुपहुत्तं।।
(ईर्यापथिकीमिथ्यादुष्कृतकुलकम्-५) मनुष्यगृहेऽप्युत्कृष्टशरीरमाने विशेषोऽस्ति। स चायम्- पञ्चसु भरतेषु पञ्चसु चैरवतेषु सङ्ख्यातजीविनां पञ्चधनुःशतानि। तथा एतेष्वेव क्षेत्रेष्वसङ्ख्यातजीविनां त्रीणि गव्यूतानि। तथा विदेहपञ्चकेऽपि युगलभावात् सदैव पञ्चधनुःशतानि। तथा युगलधर्मिणां नियतमेव तनुप्रमाणम्। तत्रान्तरद्वीपेषु षट्पञ्चाशत्सु अष्टौ धनुःशतानि, हैमवतैरण्यवतदशके गव्यूतमेकं, हरिवर्षरम्यकदशके द्वे गव्यूते, देवकुरु-उत्तरकुरुदशके त्रीणि गव्यूतानि।। ६७।। अथ भवधारिवैक्रियतनुमानमाह[मूल] निरसुरभववेउव्वं, लहुयं अंगुलअसंखभागो उ ।
निरए पंचधणुस्सय, सुरेसु करसत्त उक्कोसं ।।६८।। व्याख्या ] सुगमा।।६८।।
अथ वैक्रियलब्धिमतां बादरवायूनां सञिपञ्चेन्द्रियतिरश्चां मनुष्याणां च, तथा देवनारकाणां चोत्तरवैक्रियतनुमानमाह
[मूल] उत्तरवे(वि)उव्वि पवणे, अंगुलभागो असंखु दुविहं पि ।
सन्नितिरिमणुयनिरसुर, अंगुलसंखं सलहु सतणू ।।६९।। व्याख्या] दुविहं पि त्ति। जघन्यमुत्कृष्टं चेति। नवरं लघुतनुसत्कादङ्गुलासङ्ख्येयभागाद् उत्कृष्टोऽसौ समधिक इति। शेषं सुगमम्।।६९।।। अथ सझितिर्यगाद्युत्तरवैक्रियाणां गुरुप्रमाणमाह
[मूल] गुरु सन्नितिरिसु जोयणसयपोह(पुहु)त्तं नरेसु लक्खहियं ।
___नरएसु धणुसहस्सं, जोयणलक्खं तु देवेसु ।।७०।। व्याख्या ] सुगमा।।७०।।