________________
मन:स्थिरीकरणप्रकरणम्
तथा नाभिअहो त्ति। यन्नाभेरधस्तात् सर्वावयवेषु सम्पूर्णलक्षणं नाभेरूज़ च सर्वत्र हीनलक्षणं तत्तृतीयं सादीति।
तथा उरपुट्ठीत्यादि। यत्(द्) उर:पृष्ठजठरवर्जितेषु शेषेषु करचरणशिरोग्रीवाद्यवयवेषु लक्षणोपेतं तच्चतुर्थं कुब्जम्।
__ तथा करपयेत्यादि। यत् करचरणशिरोग्रीवाद्यवयवान् मुक्त्वा मध्यकोष्ठे यथोक्तलक्षणोपेतं तत्पञ्चमं वामनमिति।
तथा कत्थवि न छटुं ति। सर्वावयवाना(नां) मध्ये यत् प्रायेण न = नैव क्वापि लक्षणोपेतं तत्षष्ठं हुण्डमिति।।६३।। अथ संस्थानानि पृथिव्यादिषु प्रयोजयन्नाह[मूल] हुंडं चिय पुढवाइसु, निययं विविहं तरुसु विगलमणे ।
समणतिरिमणुसु छप्पिय, नरए भवजेयरे हुंडे ।।६४।। व्याख्या] सामान्यरूपतया हुण्डमेव संस्थानं पृथिव्यादिषु चतुर्षु निययं ति। प्रतिनियतं निश्चिताकारेण व्यवस्थितम्। यथा पृथिवीकायोऽर्द्धमसुरचन्द्रकाकार एव। अप्कायः स्थिबुकाकार एव। तेजस्कायः सूचीकलापाकार एव। वायुर्वातोद्भूतपताकाकार एवेति। तथेह प्रसङ्गात् वनस्पतिरनित्थंस्थसंस्थान एवेति। तत्र इत्थं = नियतेनैवाकारेण तिष्ठतीति इत्थंस्थम्, न इत्थंस्थमनित्थंस्थं = विचित्रम्, तदेवंरूपं संस्थानं यस्य स(तद्) अनित्थंस्थसंस्थानं तथेति।
अद्धमसूरं थिवुगो, सूइकलावो पडागणित्थंत्थं। पुढवाइसु संठाणं, भगवइजीवाभिगमपमुहेसु।। () इति।
विविहमित्यादि। तरुषु, विकलेषु त्रिषु, अमनस्केषु च सम्मूर्च्छजजलचरादिषु पञ्चषु तदेव पूर्वोक्तमेव हुण्डं संस्थानं विचित्रम् = अनेकाकारं भवतीति। निरयेत्यादि। नरके। भवज त्ति। भवधारिशरीरम्। इयर त्ति। उत्तरवैक्रियम्। द्वे अपि शरीरे हुण्डे इति।।६४।। तथा
[मूल] देवे समचउरंसं, भवधारिसरीरमुत्तरं नाणा। दारं। व्याख्या] सुगमा। नवरं नाणे त्ति नानाप्रकारम्। अयं हि पृथिव्यादीनां सुरान्तानां संस्थानविभागो जीवाभिगमाद्यप्रतिपत्तावित्थमभाणि। तद्यथा- सूक्ष्मबादरपृथिवीकायदण्डकयोःतेसि णं भंते ! जीवाणं सरीरा किंसंट्ठिया पण्णत्ता ? गोयमा! मसूरचंदसंठिया पन्नत्ता।
(जीवाभिगम प्र.१, सूत्र-१३,१४) एवमप्कायदण्डकद्विको(के)ऽपि, नवरम्- थिबुगसंठिया पन्नत्ता। (जीवाभिगम प्र.१, सूत्र-१६,१७) तेजस्कायदण्डकद्रिकेऽपि- सरीरगा सूइकलावसंठिया (जीवाभिगम प्र.१, सूत्र-२४,२५) वायुकायदण्डकद्विके- सरीरगा पडागासंठिया। (जीवाभिगम प्र.१, सूत्र-२६) वनस्पतिकायदण्डकद्विके- अणित्थंत्थसंठिया। (जीवाभिगम प्र.१, सूत्र-१८,२१) तथा विकलत्रिकसम्मूर्च्छजजलचरादिपञ्चकदण्डकेषु- हुंडसंठिया। (जीवाभिगम प्र.१, सूत्र-२८,३५)