________________
मन:स्थिरीकरणप्रकरणम्
यथावस्थितवस्तुचिन्तनपरम्। तद्विपरीतमसत्यम्। यथा 'नास्ति जीवः, एकान्तसद्रूपश्च' इत्यादि अयथावस्थितवस्तुविकल्पनपरम्। तथा सत्यं च मृषा चेति मिश्रम्, यथा- धवखदिरपलाशादिमिश्रेषु बहुषु अशोकवृक्षेषु ‘अशोकवनमेवेदम्' इति विकल्पनपरम्। तथा यन्न सत्यं नापि मृषा तदसत्यामृषम्। इह विप्रतिपत्तौ सत्यां वस्तुप्रतिष्ठासया सर्वज्ञमतानुसारेण यद्विकल्प्य यथा 'अस्ति जीवः सदसद्रूप' इत्यादि तत्किल सत्यं परिभाषितम्, आराधकत्वात्। यत्पुनर्विप्रतिपत्तौ सत्यां वस्तुप्रतिष्ठासया सर्वज्ञमतोत्तीर्णं विकल्प्यते, यथा 'नास्ति जीवः, एकान्तनित्यो वा' इत्यादि तदसत्यं, विराधकत्वात्। यत्पुनर्वस्तुप्रतिष्ठासामन्तरेण स्वरूपमात्रपर्यालोचनपरं यथा- 'हे ! देवदत्त! घटमानय', 'गां देहि मह्यम्' इत्यादि चिन्तनपरं तदसत्यामृषम्। इदं हि वस्तुस्वरूपमात्रपर्यालोचनपरत्वान्न यथोक्तलक्षणं सत्यं भवति नापि मृषा।
वयण त्ति। मनोवद् वचोऽपि सत्यादिभेदाच्चतु । उदाहरणानि अत्रापि तान्येव पूर्वोक्तानि। नवरमयं विशेषो-हृदयान्तश्चिन्तनरूपं मनो, वचस्तु मनश्चिन्तितस्यैव बहिर्भाषणस्वरूपमिति।
तत्र सत्यभाषा दशधा। जणवय सम्मय ठवणा, नामे रूवे पडुच्चसच्चे य। ववहार भाव जोगे, दसमे ओवम्मसच्चे य।।
(प्रज्ञापना-१९४, स्थाना-१५०, दशवैकालिकनियुक्ति-२७३) असत्यापि दशधा। कोहे माणे माया, लोभे पिजे तहेव दोसे य। हास भए अक्खाइय, उवघायनिस्सिया दसमा।।
(प्रज्ञापना-१९५, दशवैकालिकनियुक्ति-२७४) मिश्रापि दशधा। उप्पण्ण विगय मीसिय, जीव अजीवे य जीवअज्जीवे। तह मीसगा अणंता परित्त अद्धा य अद्धद्धा।।
(सम्बोधप्रकरणम्-५६०, दशवैकालिकनियुक्ति २७५) असत्यामृषा पुनादशधा।
आमंतणि आणवणी, जायणि तह पुच्छणी य पण्णवणी। पच्चक्खाणी भासा, भासा इच्छाणुलोमा य।।
(प्रज्ञापना-१९६, दशवैकालिकनियुक्ति-२७६) अणभिग्गहिया भासा, भासा य अब्भिग्गहम्मि बोधव्वा। संसयकरणी भासा, वोयड अव्वोयडा चेव।।
(प्रज्ञापना-१९७, दशवैकालिकनियुक्ति-२७७) अर्थतस्य भाषाचतुष्टयस्याप्युत्तरभेदानां द्विचत्वारिंशतोऽपि क्रमेणोदाहरणान्युच्यन्ते।
जणवय गाहा। तत्र जनपदसत्यं जनपदेषु = देशेषु यद् यदर्थवाचकतया रूढं देशान्तरेऽपि तत् तदर्थवाचकतया प्रयुज्यमानं सत्यमपि वितथमिति जनपदसत्यम्। यथा कोकणादिषु पयः पिच्चं, नीरमुदकमित्यादि। सत्यत्वं चास्या दु(इ)ष्टविवक्षाहेतुत्वात्। नानाजनपदेषु इष्टार्थप्रतिपत्तिजनकत्वात् व्यवहारप्रवृत्तेः। एवं शेषेष्वपि भावना कार्येति।
सम्मय त्ति। सम्मतं च तत्सत्यं चेति सम्मतसत्यम्। तथाहि- कुमुदकुवलयोत्पलतामरसानां समानेऽपि