________________
मन:स्थिरीकरणप्रकरणम्
आवश्यके अस्या भावार्थ:- चतुर्णां सामायिकानामेकेन्द्रियेषु उभयाभावो त्ति। न पूर्वप्रतिपन्नो नापि प्रतिपद्यमानक इति। विकलेन्द्रियेषु उपलक्षणत्वादसञ्ज्ञिष्वपि करणतोऽपर्याप्तावस्था[य] पारभविके सास्वादनभावे सति क्षणमेकं सम्यक्त्वश्रुतयोः पूर्वप्रतिपन्नो भवेदपि, प्रतिपद्यमानस्तु नैव । सञ्ज्ञिपञ्चेन्द्रियतिर्यक्षु त्रयाणां सम्यक्त्वश्रुतदेशविरतिरूपाणां विवक्षितकाले पूर्वप्रतिपन्ना नियमात् सन्ति, प्रतिपद्यमानकास्तु भाज्याः।
गुणदुगेत्यादि । कार्मग्रन्थिकाः पुनर्मिथ्यात्वं तावत् सर्वेषामप्येकेन्द्रियाणां सामान्यम्। केषुचित् पुनर्बादरभूदकप्रत्येकतरुषु लब्ध्या पर्याप्तेषु करणतो अपर्याप्तेषु क्षणमेकं यावत् पारभविकेन सास्वादनभावेन द्वितीयमपि गुणस्थानकमभ्युपगच्छन्तीति । यतस्ते कार्मग्रन्थिका एवमाहुः
१५
सासणभावे नाणं, वेउव्वाहारगे उरलमिस्सं । नेगिंदिसु सासाणो, नेहाहिगयं सुयमयंपि । । (षडशीतिनामा नव्यः चतुर्थकर्मग्रन्थ : - ४९ )
इयं गाथोत्तरत्रोपयोगद्वारे व्याख्यास्यते । तथा
भूदगतरुसुं दो (दो) एगमगणिवाउसु चउद्दस तसेसु ।
(षडशीतिनामा प्राचीनः चतुर्थ कर्मग्रंथ :- २८, शतकप्रकरण भाष्यम् - ९६) गुणस्थानकानान्ति(नामिति) सम्बन्धः । दो इत्यादि । द्वे आद्ये गुणस्थानके प्रत्येकं विकलामनसाम्। पणतिरि त्ति। मिथ्यादृष्ट्यादीनि पञ्च गुणस्थानकानि सञ्ज्ञितिर्यक्षु नरेषु चतुर्दशापि । नारकसुरेषु पृथक् पृथक् चत्वार्याद्यानि गुणस्थानानि भवन्तीति गाथाभावार्थः।।
अथ योगद्वारम् ते पञ्चदशेत्याह
[मूल] पनरस जोगा सच्चं, मुसमीसमसच्चमोस मणवयणं । उरलविउव्वाहारा, तम्मिस्सतिगं च कम्मो य ।।१७।।
[व्याख्या] तत्र योजनं = योग: जीवस्य वीर्यं परिस्पन्द इति यावत् । उक्तं च
जोगो विरियं थामो, उच्छाह परक्कमो तहा चिट्ठा। सत्ती सामत्थं ति य, जोगस्स इमे उपज्जाया ।। (पञ्चसङ्ग्रह - ३९६)
युज्यते = धावनवल्गनादिक्रियासु व्यापार्यत इति वा योगः । कर्मणि घञ् । यथा (द्वा) युज्यते = सम्बध्यते धावनवल्गनादिक्रियासु जीवोऽनेनेति योगः । स च मनोवाक्कायभेदात्प्रथमं त्रेधा । पुनः प्रतिभेदापेक्षया पञ्चदशधा । तद्यथा- सत्य-असत्य-मिश्र-असत्यामृषाभेदान्मनश्चतुर्विधम्, एवं वचोऽपि चतुर्विधम्। तथा औदारिकतन्मिश्र-वैक्रिय-तन्मिश्राहारक- तन्मिश्र - कार्मणभेदात्सप्तविधः काययोग इति ।
तत्र सच्चमित्यादि । सन्तो = मुनयः प्राणिनः पदार्था वा, तेषु यथासङ्ख्यं मुक्तिप्रापकत्वेन रक्षाविधायकत्वेन यथावस्थितवस्तुस्वरूपचिन्तनेन च साधु सत्यम् । यथा 'अस्ति जीवः, सदसद्रूपो देहमात्रव्यापी' इत्यादि। तथा
देहादन्नो मुत्तो, निच्चो कत्ता तहेव भुत्ता य । नणुमित्तो गुणमंतो, उड्डगई वन्निओ जीवा ( वो ) । । तथाउवओगलक्खणमणाइनिहणमत्थंतरं सरीराउ । जीवमरुविं कारिं, भोई च सयस्स कम्मस्स ।। इत्यादि । (ध्यानशतकम् - ५५, सम्बोधप्रकरणम् - १३६९) यः कर्ताः कर्मभेदानां भोक्ता कर्मफलस्य च । संसर्ता परिनिर्वाता स ह्यात्मा नान्यलक्षणः । ।
(शास्त्रवार्तासमुच्चय-१/९०)