________________
१४
अथायोगिकेवलिगुणस्थानम् । तत्र नास्ति पूर्वोक्तो योगोऽस्येति अयोगो अयोगीति वा शेषं पूर्ववदिति । अयोगित्वं चेत्थमुपजायते। त्रिविधोऽपि हि पूर्वोक्तो योगः प्रत्येकं द्विधा भवति । सूक्ष्मो बादरश्च । केवली च केवलज्ञानोत्पत्त्यनन्तरं जघन्यतोऽपि अन्तर्मुहूर्तमुत्कृष्टतस्तु देशोनां पूर्वकोटीं विहृत्यान्तर्मुहूर्तावशेषायुष्कः शैलेशीं प्रतिपित्सुः प्रथमं तावद् बादरकाययोगेन बादरवाङ्मनोयोगौ निरुणद्धि । ततः सूक्ष्मकाययोगावष्टम्भेन बादरकाययोगं निरुणद्धि। सति तस्मिन् सूक्ष्मयोगस्य निरोद्धुमशक्यत्वात् । ततश्च सर्वबादरयोगनिरोधानन्तरं सूक्ष्मकाययोगावष्टम्भेन सूक्ष्मवाङ्मनोयोगौ निरुणद्धि । सूक्ष्मकाययोगन्तु सूक्ष्मक्रियमनिवर्तिशुक्लध्यानं ध्यायन् स्वावष्टम्भेनैव निरुणद्धि, अन्यस्यावष्टम्भनीययोगान्तरस्य तदाऽसत्त्वादिति । तन्निरोधानन्तरं समुच्छिन्नक्रियमप्रतिपातिशुक्लध्यानं ध्यायन्
ह्रस्वपञ्चाक्षरोद्रिरणमात्रकालं शैलेशीकरणं प्रतिष्ठो (विष्टो) भवति । शीलस्य = योगलेश्या -
कलङ्कविप्रमुक्तयथाख्यातचारित्रलक्षणस्य य ईशः स शीलेशस्तस्येयं शैलेशी । त्रिभागोनस्वदेहावगाहनायामुदरादिरन्ध्रपूरणवशात् सङ्कोचितस्वप्रदेशस्य शीलेशस्यात्मनोऽत्यन्तस्थिरावस्थितिरित्यर्थः । इत्याद्यत्र बहु वक्तव्यं यावदयमयोगी सिद्धत्वं प्राप्तो भवतीति परं तदत्र नोक्तं ग्रन्थगौरवभयात्। ततोऽस्यायोगिनः पूर्वोक्तप्रमत्तादिगुणानां च सर्वेषामपि व्यासार्थिना कर्मस्तव - षडशीतिक - शतक ( पंचम कर्मग्रंथ गा. ९८-९९ वृत्ति।) वृत्तयोऽवलोकनीयाः । ततो अयोगिनाम् अयोगानां वा केवलिनां गुणस्थानकमिति विग्रहः'।
मन:स्थिरीकरणप्रकरणम्
मिच्छं अणाइनिहणं, अभव्वे भव्वे वि सिवगमाजुग्गे । सिवगड़ अणाइसंतं, साईसंतं पितं एवं ।। लहू अंतमुहू गुरुअं, देसूणमवड्ढपुग्गलपरट्टं । सासाणं लहु समओ, आवलिछक्कं च उक्कोसं । । अजहन्नमणुक्कोसं, अंतमुहू मीसगं अह चउत्थं । समहिअतित्तीसयरे, उक्कोसं अंतमुहु लहुयं । । देसूणपुव्वकोडी, गुरुअं लहुअं च अंतमुहु दे । छट्टाइगारसंता, लहु समया अंतमुहु गुरुआ ।। अंतमुहुत्तं एगं, अलहुक्कोसं अजोगिखीणेसु । देसूणपुव्वकोडी, गुरुअं लहु अंतमुहु जोगी ।। (विचारसप्ततिका-७३-७७) मिच्छे सासाणे वा, अविरय सम्मंमि अहव गहियंमि । जंति जिया परलोयं, सेसेक्कारसगुणे मोतुं ।। (प्रवचनसारोद्धार - १३०६ ) मीसे खीणि सजोगो, न मरतेकारसेसु य मरंति । तेसुवि तिसु गहिएसुं, परलोयगमो न अट्ठेसु ।। (विचारसप्ततिका - ७८) इति गाथार्थ: ।
अथैतानि पृथिव्यादिषु दर्शयन्नाह -
१
[मूल] सुत्ते मिच्छमिगिंदिसु, गुणदुग भूदगवणेसु कम्मइगा । दो विगलमणे पणतिरि नरि चउदस चउर निरयसुरे ।। १६ ।।
[व्याख्या] सूत्राभिप्रायेण एकमेव मिथ्यात्वगुणस्थानकं पञ्चस्वप्येकेन्द्रियेषु भवति । न पुनः सास्वादनमपि, तस्य सम्यक्त्वभेदत्वात्, सम्यक्त्वस्य सर्वथाप्येकेन्द्रियेषु निषेधात्। तथाहि
उभयाभावो
पुढवाइएस विगलेसु होज उ पवन्नो । पंचिंदियतिरिएसुं, नियमा तिण्हं सिय पवज्जे ।।
अत्र कश्चित् पाठो निष्कासित इति आभाति । स च एवं
दुविहं कालं चउद्दसगुणेणं । (बन्धशतकम् - ९। )
जेहि विस ह परलोगो जेसु अ मरणं न मरणं वा ।।
अह चउदससु गुणेसुं, कालपमाणं भणामि दुविहंपि । न मरइ मरइ व जेसुं, सह परभवे जेहिँ नो {जेहिं} अप्पबहू ।। (विचारसप्ततिका- ७२)
२ अविरयभावम्मि अहिगए अहवा - इति मु.।