________________
मन:स्थिरीकरणप्रकरणम्
द्विविधाः क्षपका उपशमकाश्च । तत्र क्षपका अनिवृत्तिबादरेण सूक्ष्मकिट्टीकृतं लोभं निर्मूलत एव क्षपयन्ति। उपशमकास्तु तमेवोपशमयन्तीति।
१३
=
अथोपशान्तकषायवीतरागछद्मस्थगुणस्थानम् । तत्र शान्ता = उपशमं नीता विद्यमाना एव सङ्क्रमणोद्वर्त्तनादिकरणायोग्यत्वेन व्यवस्थापिताः कषाया यैस्ते उपशान्तकषायाः । तत्राविरताद्यप्रमत्तान्तावस्थायां दर्शनसप्तकमुपशमितम्। ततो अनिवृत्तिबादरवस्थायां चारित्रमोहस्य विंशतिप्रकृतीरुपशमितास्ततोऽपि (सञ्ज्वलनमायालोभौ' ततो(तः)सूक्ष्मसम्परायावस्थायां सञ्ज्वलनलोभमप्युपशमय्य सर्वथैवोपशान्तमोहत्वं प्रतिपद्यन्त इत्येवमुपशान्ता (न्त) कषाया अमी प्रोच्यन्त इति । तदेवमन्येष्वपि गुणस्थानेषु क्वापि क्वापि कियतामपि कषायाणामुपशान्तत्वसम्भवादुपशान्तकषायव्यपदेश: सम्भवतीति ततस्तद्व्यवच्छेदार्थमुपशान्तकषायग्रहणे सत्यपि वीतरागग्रहणं कर्तव्यम्। उपशान्तकषायवीतराग इति चैतावतैवेष्टसिद्धौ छद्मस्थग्रहणं स्वरूपकथनार्थम्, व्यवच्छेद्याभावात्। न ह्यछद्मस्थ उपशान्तकषायवीतराग सम्भवति यस्य छद्मस्थग्रहणेन व्यवच्छेदः स्यादिति । तस्य उपशान्तकषायवीतरागछद्मस्थस्य गुणस्थानमिति । एते च उपशान्तमोहा वक्ष्यमाणाश्च क्षीणमोहा भवस्था योगिनश्च जघन्यतस्त्रयोऽपि एकद्वित्र्यादिका, उत्कृष्टतः पुनरुपशान्ताश्चतुःपञ्चाशत्, क्षीणमोहा अष्टशतं भवस्था योगिनोऽपि अष्टशतमिति ।
अथ क्षीणकषायवीतरागछद्मस्थगुणस्थानम्। क्षीणाः = सर्वथा अभावमापन्नाः कषाया यस्य स क्षीणकषायः। तत्रानन्तानुबन्धिकषायान् प्रथममविरतसम्यग्दृष्ट्याद्यप्रमत्तान्तगुणस्थानेषु क्षपयति । ततः शेषान् सञ्ज्वलनलोभवर्ज्यान् निवृत्तिबादरसम्परायगुणस्थाने क्रमेण क्षपयति। सञ्ज्वलनलोभं सूक्ष्मसम्परायगुणस्थान इति। तदेवमन्येष्वपि सरागेषु क्षीणकषायव्यपदेशः सम्भवति । क्वापि कियतामपि कषायाणां क्षीणत्वसम्भवादतस्तद्व्यवच्छेदार्थं वीतरागग्रहणम् । क्षीणकषायवीतरागत्वं च केवलिनोऽप्यस्तीति स्त (त) द्व्यवच्छेदार्थं छद्मस्थग्रहणम्। तस्य क्षीणमोहवीतरागछद्मस्थस्य गुणस्थानम् । अत्र च उपशान्तक्षीणमोहयोरयं विशेष:
जलमिव पसंतकलुसं, पसंतमोहो भवे उ उवसंतो । गयकलुसं जह तोयं, गयमोहो खीणमोहो वि।। ( ) तथा
खीणा निव्वाहुयासणो व्व छारपिहिय व्व उवसंता । दरविज्झायविहाडियजलणोवं- (व)मा खओवसमा ।। ( )
अथ सयोगिकेवलिगुणस्थानम् । तत्र योगो वीर्यं शक्तिरुत्साहः पराक्रम इति चानर्थान्तरम् । स च मनोवाक्कायलक्षणकरणत्रयभेदात्तिस्रः सञ्ज्ञा लभते । मनोयोगः, वाग्योगः, काययोगश्चेति । स चायं त्रिविधोऽपि योगो भगवतः प्रस्तुतकेवलिनः सम्भवति । तथाहि - मनोयोगस्तावन्मन: पर्यायज्ञानादिभिरनुत्तरसुरादिभिर्वा जीवाजीवादितत्त्वं किञ्चिन्मनसो पृष्टस्य मनसैव देशनायां सम्भवति । वाग्योगस्तु सामान्येन देशनादौ । काययोगस्तु चङ्क्रमणोन्मेषनिमेषादौ। सह योगेन वर्तत इति सम्बन्धः, सर्वधनादेराकृतिगणत्वेन मत्वर्थीयेन्विधानात् सयोगिनः । अथवा सह यथोक्तेन योगेन वर्तत इति सयोगाः । केवलं = सम्पूर्णज्ञेयग्राहित्वेन सम्पूर्णज्ञानमेषामिति केवलिनः, सयोगिनश्च सयोगाश्च वा ते केवलिनश्च सयोगिकेवलिनः, सयोगकेवलिनो वा तेषां गुणस्थानम् । च सयोगिनो जघन्यतोऽपि उत्कृष्टतोऽपि कोटिपृथक्त्वसङ्ख्याः।
१
अयं पाठः निष्कासित आभाति ।