SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ मन:स्थिरीकरणप्रकरणम् पङ्कजातत्वे गोपालादीनामपि सम्मतमरविन्दमेव पङ्कजम्। तत्रैव सत्यः पङ्कजशब्दो, न पुनः कुवलयादावसम्मतत्वात्। तथा शुभ्रं यशः, शुक्लो धर्मः, कृष्णं पापम्, कृष्णमाकाशम्। जेसिमवट्ठ पोग्गल, परियट्टो सेसओ य संसारो। ते सुक्कपक्खिया खलु, सेसा पुण किण्हपक्खिया।। इत्यादि। (श्रावकप्रज्ञप्ति-७२, गाथासहस्री-३५०) ठवण त्ति। स्थाप्यत इति स्थापना। यल्लेप्यादिकर्म अर्हदादिविकल्पेन स्थाप्यते तद्विषये सत्यं स्थापनासत्यम्। यथा अजिनोऽपि 'जिनोऽयम्' अनाचार्योऽपि ‘आचार्योऽयम्'। आलेख्यमात्रेऽपि 'जम्बूद्वीपोऽयम्' इत्यादि। नामे त्ति। नामाभिधानं सत्सत्यं नामसत्यम्। यथा कुलमवर्द्धयन्नपि कुलवर्द्धनः। जरामृत्युसद्भावेऽप्यजरामरः। एवं देवदत्त ईश्वर इति। रूवेत्ति। रूपापेक्षया सत्यं रूपसत्यम्। यथा प्रपञ्चयतिरपि प्रव्रजितरूपं धारयन् श्रमण उच्यते। पडुच्चसच्चे त्ति। प्रतीत्य = आश्रित्य वस्त्वन्तरं सत्यं प्रतीत्यसत्यम्। यथा अनामिकाया ज्येष्ठाङ्गलिकनिष्ठिके प्रतीत्य ह्रस्वत्वं दीर्घत्वं चेति। एकोऽपि पुरुषोऽपत्यापेक्षया पिता स एव च निजजनकापेक्षया पुत्र इति द्विधाप्युच्यमानं सत्यम्। व्यवहारेण सत्यं व्यवहारसत्यम्। 'ग्राम(मः) समायातः', 'दह्यते गिरिः' गलति भाजनम् । अयं च कतिपयप्रधाननरागमेऽपि गिरिगततृणादिदाहे व्यवहारतः प्रवर्तते, उदके च गलति सतीति। एवं ग्रामो दग्धः' ‘पटो दग्धः' इत्यादि। भावि त्ति। भावं भूयिष्ठं शुक्लादिपर्यायमाश्रित्य सत्यं भावसत्यम्। यथा निश्चयतः सर्वेष्वपि बादरस्कन्धेषु पञ्चवर्णत्वम्, द्विगन्धत्वम्, पञ्चरसत्वम्, अष्टस्पर्शत्वं चास्ति; परं व्यवहारतो य एव वर्णादिको भावो यस्य यस्य प्रभूतो भवति, तस्य तेनैवैकेनापि भावेन व्यपदेशः सत्य एव। यथा- 'शुक्ला बलाका', 'पीतं कनकम्', 'रक्तं विद्रुमम्', 'नीलमुत्पलम्', 'कृष्णो भ्रमरः', 'सुरभिः मृगमदः' इत्यादि। तथा व्यवहारतो केशदन्तौष्ठादिषु नानावर्णत्वेऽपि सर्वावयवव्यापकं वर्णभावमपेक्ष्य ‘पञ्चवर्णास्तीर्थकृतः', 'कृष्णा विष्णवः', 'शुभ्रा शीरिणः' इत्यादि। तथा वणि (ग्)ग्रामोऽयम्' 'द्विजस्थानम्' इत्यादि विविधवर्णवासेऽपि बाहुल्यापेक्षयेति। योगि त्ति। योगतः = सम्बन्धतः सत्यं योगसत्यम्। दण्डयोगाद्दण्डः पुरुषः इत्यादि। यथा अमुकस्य खल्मलक्षं मिलति। आतपत्रसहस्रं वा, एतावन्ति वा फरिकासहस्राणि, एतावन्त्यो वा कपरिकाः। अमुकस्य व्याख्याने(?)। औपम्यसत्यमिति। उपमैवौपम्यं तेन सत्यमौपम्यसत्यम्। यथा समुद्रवत्तडागः, चन्द्रवन्मुखम्, पुरुषसिंहस्तीर्थकरः। कंसपाई व्व मुक्कतोए। (कल्पसूत्र-११७) इत्यादि। कंसे संखे जीवे, गगणे वाऊ य सारए सलिले। पुक्खरपत्ते कुम्मे, विहगे खग्गे य भारुंडे।। कुंजर वसभे सीहे, नगराया चेव सागरमखोभे। चंदे सूरे कणगे, वसुंधरा चेव सुहयहुए।। (स्थानाङ्ग-१३८/१३९,सू.६९३) अथ मृषा। कोहे गाहा। तत्र क्रोधादसत्यम्। यथा क्रोधाभिभूतः परस्य विश्रम्भापादनबुद्ध्या तिरस्कारार्थं
SR No.009261
Book TitleMan Sthirikaran Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Rupendrakumar Pagariya
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy