________________
मन:स्थिरीकरणप्रकरणम्
त्रयाणां च एतेषां पुञ्जानां मध्ये यदार्द्धविशुद्धः पुञ्ज उदेति तदा तदुदयवशादर्द्धविशुद्धमर्हदृष्टतत्त्वश्रद्धानं भवति जीवस्य, तेन तदासौ सम्यग्मिथ्यादृष्टिगुणस्थानमन्तर्मुहुर्त स्पृशति। तत ऊर्द्धमवश्यं सम्यक्त्वं मिथ्यात्वं वा गच्छतीति। आह चमिच्छत्ता संकंती, अविरुद्धा होइ सम्ममीसेसु। मीसाऊ वा दोसुं, सम्मामिच्छं न उण मिस्सं।।
(विशेषावश्यकभाष्यम्-२७३४, बृक.भा.१, गाथा-११४, सार्द्धशतकभाष्यम्-४) सिद्धान्ताभिप्रायोऽयम्, कर्मग्रन्थाभिप्रायेण मिश्रेऽपि सङ्क्रान्तिर्भवति। अत एव तैः मिच्छस्स बे छसट्ठी त्ति ( ) मिश्रान्तरिते द्वे अतरषट्षष्ठी मिथ्यात्वोदयस्य अन्तरमुक्तम्। एतेऽपि मिश्रदृष्टयः कदाचिदुत्कृष्टतोऽसख्येयाः प्राप्यन्त इति।
तथा विर(म)ति स्म सावधयोगेभ्यो निवर्तते स्म (स्मे)ति विरत: तथाऽविरतो (विरतोऽतथाऽविरतो)। अथवा विरमणं = विरतं = सावद्ययोगप्रत्याख्यानमेव, नास्य विरतमस्तीत्यविरतः, स चासौ सम्यग्दृष्टिश्चेत्यविरतसम्यग्दृष्टिः। यद्यपि सम्यग्दृष्टित्वेन सावद्ययोगप्रत्याख्यानं जानाति, अज्ञानिन: सम्यक्त्वायोगात् तथापि तदसौ नाभ्युपगच्छति, न च पालयति अप्रत्याख्यानावरणकषायोदयात्। ते ह्यल्पमपि प्रत्याख्यान-मावृण्वन्तीति अप्रत्याख्यानावरणा उच्यन्ते, नञोऽल्पार्थत्वात्। इदमुक्तं भवति- यः पूर्वोपवर्णित औपशमिक: सम्यग्दृष्टिः, शुद्धदर्शनमोहपुञ्जोदयवर्ती वा क्षायोपशमिकसम्यग्दृष्टिः, क्षीणदर्शनसप्तको वा क्षायिकसम्यग्दृष्टिः परममुनिप्रणीतां सावद्ययोगविरतिं सिद्धिसौधाध्यारोहणनिश्रेणिकल्पां जानन्नप्यप्रत्याख्यानावरणकषायोदयविनि-तत्वान्नाभ्युपगच्छति, न च तत्पालनाय यतत इत्य-सावविरतसम्यग्दृष्टिरुच्यते। तस्य गुणस्थानमविरतसम्य-ग्दृष्टिगुणस्थानम्। उक्तं च
बंधं अविरयहेडे, जाणंतो रागदोसदुक्खं च। विरइसुहं इच्छंतो, विरई काउं च असमत्थो।। एस असंजयसम्मो निंदतो पावकम्मकरणं च। अहिगयजीवाजीवो, अचलियदिट्ठि चलियमोहो।। ( )
एते चाविरतसम्यग्दृष्टयोऽसङ्ख्याताः सर्वदैव प्राप्यन्ते, देवानां नारकाणां सञिपञ्चेन्द्रियतिरश्चां च सम्यग्दृष्टिनां पृथक् पृथग् असङ्ख्येयानां सदैव लाभात्।
तथा सर्वसावद्ययोगस्य देशे एकव्रतविषयस्थूलसावद्ययोगादौ सर्वव्रतविषयानुमतिवर्जसावद्ययोगान्ते विरतं विरतिर्यस्यासौ देशविरतः। सर्वसावद्ययोगविरतिस्त्वस्य नास्ति. प्रत्याख्यानावरणकषायोदयात. सर्वविरति प्रत्याख्यानामावृण्वन्तीति प्रत्याख्यानावरणा उच्यन्ते। देशविरतस्य गुणस्थानं देशविरतगुणस्थानम्। उक्तं च
सम्मइंसणसहिओ, गिण्हतो विरइमप्पसत्तीए। एगव्वयाइचरिमो, अणुमइमित्तो त्ति देसजई।। परिमियमवसेवंतो, अयरमियमणंतयं परिहरंतो। पावड़ परंमि लोए, अपरमियमणंतयं सोक्खं।
एतेऽपि देशविरतसम्यग्दृष्टयोऽसङ्ख्याताः सर्वदैव लभ्यन्ते, यतो देशविरताः तिर्यञ्चः सदैव असङ्ख्येया लोके लभ्यन्त इति।
तथा प्रमाद्यति स्म = संयमयोगेषु सीदति स्मेति प्रमत्तः। अथवा प्रमदनं = प्रमत्तं प्रमादः, स च मदिराविषयकषायानिद्राविकथानां पञ्चानामन्यतमः सर्वे वा। ततस्तत् प्रमत्तमस्यास्तीत्यर्शआदित्वात् अत्प्रत्ययः। प्रमत्तः प्रमादवानित्यर्थः। स चासौ संयतश्चेति प्रमत्तसंयतस्तस्य सम्बन्धिनां गुणानां स्थानम् = तदुपचयापचयकृतः स्वरूपविशेषः। तथाहि-देशविरतगुणापेक्षया एतद्गुणानामुपचयोऽप्रमत्तसंयतगुणापेक्षया त्वपचय इत्येवमन्येष्वपि गुणस्थानकेषु पूर्वोत्तरपेक्षया उपचयापचययोजना कर्तव्येति। एते च प्रमत्ता वक्ष्यमाणाश्चाप्रमत्ता उभयेऽपि यथास्वं