SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ मन:स्थिरीकरणप्रकरणम् जघन्यतोऽपि उत्कृष्टतोऽपि कोटिसहस्रपृथक्त्वमानाः, परम् अप्रमत्तपृथक्त्वं लघु, प्रमत्तपृथक्त्वं तु सङ्ख्यातगुणम्, यतः प्रमादभावो बहूनां बहुकालं च लभ्यते, विपर्ययेण तु अप्रमादभाव इति। तथा न प्रमत्तोऽप्रमत्तो नास्ति वा प्रमत्तमस्येत्यप्रमत्तो मदिरादिप्रमादरहितो, अप्रमत्तश्चासौ संयतश्चेत्यप्रमत्तसंयतस्तस्य गुणस्थानमप्रमत्तसंयतगुणस्थानम्। नियट्टि त्ति। निवृत्तिबादरोऽस्य च अपूर्वकरण इति सज्ञान्तरमप्यस्ति। तत्र अपूर्वकरणतां व्याख्याय पश्चान्निवृत्तिबादरत्वं व्याख्यास्यते। तत्र स्थितिघात-रसघात-गुणश्रेणि-गुणसङ्क्रम-स्थितिबन्धादिपदार्थानामपूर्वं = तत्प्रथमतयाभिनवं करणं = क्रिया येषु ते अपूर्वकरणाः। तथाहि-बृहत्प्रमाणाया ज्ञानावरणादिकर्म-स्थितेः अपवर्तनाकरणेन खण्डनमल्पीकरणं स्थितिघात उच्यते। रसस्यापि कर्मपरमाणुगतस्निग्धत्वलक्षणस्य तेनैव करणेन खण्डनं = घातो रसघात:। एतौ च द्वावपि पूर्वगुणस्थानेषु विशुद्धेरल्पत्वादल्पावेव कृतवन्तोऽत्र पुनर्विशुद्धवृहत्प्रमाणत्वादपूर्वाविमौ कुर्वन्ति। तथा उपरितनस्थितेर्विशुद्धिवशादपवर्तनाकरणेनावतारितस्य दलिकस्यान्तर्मुहूर्तप्रमाणमुदयलक्षणादुपरि क्षिप्रतरक्षपणाय प्रतिक्षणं गुणेनासङ्ख्येयगुणवृद्ध्या विरचनं गुणश्रेणिरित्युच्यते। स्थापना TITL उक्तं चपूर्वगुणस्थानेष्वविशुद्धत्वात् कालतो दीर्घा दलिकविरचनामाश्रित्याप्रथीयसी दलिकस्याल्पस्यापवर्तनाद् विरचितवन्तोऽत्र तु तामेव विशुद्धत्वादपूर्वां कालतो ह्रस्वतरां दलिकविरचनामङ्गीकृत्य पुनः पृथुतरां बहुतरदलिकस्यापवर्तनाद्विरचयन्तीति।( ) तथा बध्यमानशुभप्रकृतिषु पूर्ववद्वा(बद्धा)शुभप्रकृतिदलिकस्य प्रतिक्षणं गुणेनासङ्ख्येयगुणवृद्ध्या विशुद्धिवशात्सङ्क्रमणं = सञ्चारणं = नयनं गुणसङ्क्रमः तमप्येते विशिष्टतरत्वादिहापूर्वं कुर्वन्ति। तथा स्थितिं च कर्मणामशुद्धत्वात्प्राग् दीर्घा बद्धवन्तो, अत्र तु तामेव विशुद्धिप्रकर्षतो ह्रस्वतयापूर्वां बध्नन्तीत्येवं स्थितिघातादीनामिहापूर्वकरणता द्रष्टव्या। उक्तं चठिइघाओ रसघाओ, गुणसेढी संकमो गुणेणेवं। ठिइबंधो उ अपुव्वो, पंच अपुव्वा अपुव्वंमि।। (कर्मप्रकृति-३३३,सम्मुत्तुप्पायविहीकुलक-१६) उपलक्षणं चैतद् उदयोद्वर्तनादीनाम्, तेषामपि ह्यत्र सर्वेषामपूर्वत्वादिति। अयं चापूर्वकरणो द्विधा भवतिक्षपक उपशमको वा। क्षपणोपशमनार्हत्वाद् राज्यार्हकुमारराजवन्न पुनरसौ किमपि क्षम(प)यति उपशमयति वा। तस्य गुणस्थानमपूर्वकरणगुणस्थानम्। तथा युगपदेतद्गुणस्थानं प्रविष्टानां परस्परमध्यवसायस्थानस्य भेदलक्षणा निवत्तिरप्यस्ति। न पुनर्वक्ष्यमाणानिवृत्तिबादरवदेकसमयप्रविष्टानाम् अध्यवसायस्यैकत्वमेव। ततश्च निवृत्तियोगानिवृत्तिबादरमपीदमुच्यते। एते च अपूर्वकरणा वक्ष्यमाणाश्चानिवृत्तिबादराः सूक्ष्मसम्परायाश्च त्रयोऽपि यथास्थानं जघन्यत एकद्वित्र्यादिक्षपकोपशमकयोरष्टशतचतुःपञ्चाशत्सङ्ख्ययोर्मीलनात्, द्विषष्ठ्यधिकशतसङ्ख्या (१६२) भवन्तीति।
SR No.009261
Book TitleMan Sthirikaran Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Rupendrakumar Pagariya
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy