________________
मन:स्थिरीकरणप्रकरणम्
इमं च ग्रन्थिं यावदभव्या अपि यथाप्रवृत्तिकरणेन कर्म क्षपयित्वा अनन्तश: समागच्छन्त्येव। अत्रावसरे केचन अर्हदादिदर्शनतः श्रुतसामायिकलाभं लभन्ते, व्रतमप्यङ्गीकुर्वन्ति, एकादशाङ्गानि पठन्ति, नवमग्रैवेयकं यावद्यान्ति। एते चाप्रतिपतितैतत्परिणामा ग्रन्थिकसत्त्वा उच्यन्ते। ते च कर्मसप्तकमपि सागरान्त:कोटीकोटिस्थितिकमेव बध्नन्ति, न पुनरधिकम्। ततः प्रतिपतत्प्रतिपदेतत्परिणामाश्च (प्रतिपतदेतत्परिणामा) अभव्याः सर्वेऽपि; भव्या अपि केचन ग्रन्थिभेदं कर्तुमसमर्थाः पुनरपि व्यावृत्य सङ्क्लेशवशात् कर्मस्थितिं वर्द्धयन्ति यावदुत्कृष्टस्थितीनि सप्तापि कर्माणि कुर्वन्ति। य: पुनर्ग्रन्थिभेदं कर्तुं समर्थः स महात्मा समासन्नपरमनिर्वृत्तिसुख: समुल्लसितप्रचुरदुर्निवारवीर्यप्रसरो निशितकुठारधारयेव अपूर्वकरणसज्ञितया परमविशुद्ध्या यथोक्तस्वरूपस्य ग्रन्थेर्भिदां विधाय मिथ्यात्वमोहनीयकर्मस्थितेरन्तर्मुहुर्तमुदयक्षणादुपर्यतिक्रम्य अनिवृत्तिकरणसज्ञितेन विशुद्धिविशेषेणान्तर्मुहुर्तकालप्रमाणं तत्प्रदेशवेद्यमिथ्यात्वदलिकवेदनाभावरूपमन्तरकरणं करोति। अत्र च यथाप्रवृत्तकरणापूर्वकरणानिवृत्तिकरणानामयं क्रमो वेदितव्यो यथाजा गंठी ता पढम, गंठिं समइच्छओ हवइ बीयं। अनियट्टीकरणं पुण, सम्मत्तपुरक्खडे जीवे।।
(विशेषावश्यकभाष्यम्-१२०३) गंठी समइच्छओ त्ति। ग्रन्थिं समतिक्रामतो = भिन्दानस्येति यावत्। सम्मत्त पुरक्खड त्ति। सम्यक्त्वं पुरस्कृतं येन स तथा, तस्मिन्नासन्नसम्यक्त्व एव जीवे अनिवृत्तिकरणं भवतीत्यर्थः। एतस्मिंश्चान्तरकरणे कृते सति तस्य मिथ्यात्वमोहनीयस्य कर्मणः स्थितिद्वयं भवति। अन्तरकरणादधस्तनी अन्तर्मुहूर्तप्रमाणा प्रथमा स्थितिः। तस्मादेव चान्तरकरणादुपरितनी अन्तर्मुहूर्तानान्त:सागरोपमकोटीकोटिप्रमाणा शेषा द्वितीया स्थितिः। स्थापना चेयम्
→ अन्तर्मुहूर्तावान्तः सागरोपमकोटीकोटिः ।
अन्तर्मुहूर्तम् । तत्र प्रथमस्थितौ मिथ्यात्वदलिकवेदनादसौ मिथ्यादृष्टिरेव, अन्तर्मुहूर्तेन पुनस्तस्यामधस्तनस्थितावपगतायाम् अन्तरकरणप्रथमसमय एव मिथ्यात्वदलिकवेदनाभावादौपशमिकं सम्यक्त्वमवाप्नोति। यथा हि वनदावानल: पूर्व दग्धेन्धनमूषरं वा देशमवाप्य विध्यायति तथा मिथ्यात्ववेदनदवोऽपि अन्तरकरण(णे) विध्यायति। तथा च सति तस्यौपशमिकसम्यक्त्वलाभ:। उक्तं चऊसरदेसं दढेल्लयं च विज्झाइ वणदवो पप्प। इय मिच्छत्तऽणुदए, उवसमसम्मं लहइ जीवो।। इति।
(विशेषावश्यकभाष्यम्-२७३४) तस्यां चान्तर्मुहुर्तिक्यामुपशमाद्धायां परमनिधिकल्पायां जघन्येन समयमात्रशेषायामुत्कृष्टतः षडावलिकाशेषायां सत्यां कस्यचिन्महाबिभीषिकोत्थानकल्पोऽनन्तानुबन्धिकषायोदयो भवति। तदुदये चासौ सासादनसम्यग्दृष्टिगुणस्थानके वर्तते। उपशमश्रेणिप्रतिपतितो वा कश्चित् सासादनत्वं याति। तदुत्तरकालं चावश्यं मिथ्यात्वोदयादसौ मिथ्यादृष्टिर्भवतीति। एते च सासादनसम्यग्दृष्टयः कदाचिदुत्कृष्टतोऽसङ्ख्येया प्राप्यन्त इति।
तथा सम्यक् च मिथ्या च दृष्टिर्यस्य स सम्यग्मिथ्यादृष्टिस्तस्य गुणस्थानं सम्यग्मिथ्यादृष्टिगुणस्थानम्। इदमत्र हृदयम्-वर्णितविधिना लब्धेनौपशमिकसम्यक्त्वेनौषधविशेषकल्पेन मदनकोद्रववदशुद्ध दर्शनमोहनीयं कर्म जीव: शोधयित्वा त्रिधा करोति। तद्यथा-शुद्धमर्द्धविशुद्धमशुद्धश्चेति स्थापना- O0.