________________
मन:स्थिरीकरणप्रकरणम्
एवमिहापि प्रबलमिथ्यात्वोदयेऽपि काचिदविपर्यस्तापि दृष्टिर्भवतीति तदपेक्षया मिथ्यादृष्टेरपि गुणस्थानकसम्भवः। यद्येवं ततः कथमसौ मिथ्यादृष्टिरेव मनुष्यपश्वादिप्रतिपत्त्यपेक्षया यावत् निगोदावस्थायामपि तथाभूताव्यक्तस्पर्शमात्रप्रतिपत्त्यपेक्षया वा सम्यग्दृष्टित्वादपि, अत्रोच्यते, नैष दोषो, यतो भगवदर्हत्प्रणीतं सकलमपि द्वादशाङ्गार्थमभिरोचयमानोऽपि यदि तद्तमेकमप्यक्षरं न रोचयति तदानीमप्येष मिथ्यादृष्टिरेवोच्यते। तस्य भगवति सर्वज्ञे प्रत्ययनाशात्। तदुक्तम्
सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः। मिथ्यादृष्टिः सूत्रं हि नः प्रमाणं जिनाभिहितम्।। () इति
किं पुन: शेषो भगवदर्हदभिहितयथावज्जीवाजीवादिवस्तुतत्त्वप्रतिपत्तिविकलः ? इति। तथैव तस्मिन् मिथ्यादष्टिगणस्थानके सर्वजीवानन्ततमभागेन सिद्धसास्वादनाद्ययोग्यन्तजीवराशिरूपेण रहिताः सर्वेऽपि संसारिणो जीवा वर्तन्ते।
तथा आयम् = औपशमिकसम्यक्त्वलाभलक्षणं सादयति = अपनयतीति आसादनम् = अनन्तानबन्धिकषायवेदनम्, अत्र पृषोदरादित्वात् 'य'शब्दलोपः। सति हि तस्मिन् परमानन्दरूपानन्तसुखफलदो निःश्रेयसतरुबीजभूत औपशमिकसम्यक्त्वलाभो जघन्यत: समयेन उत्कृष्टतः षड्भिरावलिकाभिरपगच्छतीति। ततः सह आसादनेन वर्तत इति सासादनः। सम्यग् = अविपर्ययस्ता दृष्टिः = जिनप्रणीतवस्तुप्रतिपत्तिर्यस्य स सम्यग्दृष्टिः। सासादनश्चासौ सम्यग्दृष्टिश्चेति सासादनसम्यग्दृष्टिः तस्य गुणस्थानं सासादनसम्यग्दृष्टिगुणस्थानम्।
अथवा आ = समन्तात् शातयति = स्फेटयत्यौपशमिक: सम्यक्त्वमिति आशातनम् = अनन्तानुबन्धिकषायवेदनमेव। सहाशातनेन वर्तत इति साशातनः, स चासौ सम्यग्दृष्टिश्चेति साशातनसम्यग्दृष्टिः, तस्य गुणस्थानम्।
यदि वा सह सम्यक्त्वलक्षणतत्त्वरसास्वादनेन वर्तते, सम्यक्त्वरसं नाद्यापि सर्वथा त्यजतीति कृत्वा सास्वादनः। यथा हि भुक्तक्षीरान्नविषयव्यलीकचित्त: पुरुषस्तद्वमनकाले क्षीरान्नरसमास्वादयति तथैषोऽपि मिथ्यात्वाभिमुखतया सम्यक्त्वस्योपरि व्यलीकचित्तः सम्यक्त्वमुद्वमन् तद्रसमास्वादयति। ततः स चासौ सम्यग्दृष्टिश्च तस्य गुणस्थानं सास्वादनसम्यग्दृष्टिगुणस्थानम्।
एतच्चैवं भवति- इह गम्भीरापारसंसारपारावारमध्यपरिवर्ती जन्तुः सकलदुःखपादपबीजभूतमिथ्यात्वप्रत्ययमनन्तान् पुद्गलपरावर्तान् अनेकशारीरिकमानसिकदुःखलक्षाण्यनुभूय कथमपि तथाभव्यत्वपरिपाकवशतो गिरिसरिदुपलघोलनाकल्पेन अनाभोगनिवर्तितेन यथाप्रवृत्तिकरणेन ‘करणं परिणामोऽत्र' (योगबिन्दु-२६४) इति वचनाद्, अध्यवसायविशेषरूपेण ज्ञानावरणादिकर्माणि आयुर्वर्जानि सर्वाण्यपि पृथक् पृथक् पल्योपमासङ्ख्येयभागन्यूनैकसागरोपमकोटीकोटिस्थितिकानि करोति। अत्रान्तरे तथाविधकर्ममलपटलतिरस्कृतवीर्यविशेषाणामसुमतां दुर्भेद्यः कर्कशनिबिडचिरप्ररूढगुपिलग्रन्थिवत् कर्मपरिणामजनितो रागद्वेषपरिणामरूपो अभिन्नपूर्वोक्त)ग्रन्थिर्भवति। तदुक्तम्तिहिअंतीय विय थेवमेत्ते खविएतरंमि जीवस्स। हवइ हु अभिन्नपुव्वो, गंठी एवं जिणा बिंति।।
(धर्मसङ्ग्रहणी-७५२, श्रावकप्रज्ञप्ति-३२) तीए विय त्ति।। तस्या अपि पल्योसङ्ख्येयभागोनसागरकोटीकोटै(टिभि)रिति।। गंठि त्ति सुदुब्भेओ, कक्खडघणरूढगूढगंठिव्व। जीवस्स कम्मजणिओ, घणरागद्दोसपरिणामो।।
(विशेषावश्यकभाष्यम्-११९५)