________________
मन:स्थिरीकरणप्रकरणम्
सज्ञिपञ्चेन्द्रियाश्च अन्तमेष्यन्ति न पुनस्तावत्प्राप्ताः किन्तु गच्छन्तः सन्ति ते करणापर्याप्ता उच्यन्त इति। शेष सुगमम्।।१२।।१३।। अथ जीवस्थानानि पृथिव्यादिपदेष्वाह[मूल] आइमचउएगिदिसु, नियनियजियट्ठाण दु दुगविगलमणे ।
तिरिनिरयसुरंतदुगं, नरि अंतदुगं तहेक्कारं ।।१४।। व्याख्या] सूक्ष्मापर्याप्तसूक्ष्मपर्याप्तबादरापर्याप्तबादरपर्याप्तैकेन्द्रियरूपम् आदिमं जीवस्थानकचतुष्टयम् एकेन्द्रियेषु पृथिव्यादिषु पञ्चसु गृहेषु। तथा निजं निजं जीवस्थानकद्वयं द्वित्रिचतुरिन्द्रियामनस्तिर्यगृहेषु पृथक् पृथग् भवति। तद्यथा- द्वीन्द्रियोऽपर्याप्तः पर्याप्तश्चेति, त्रीन्द्रियोऽपर्याप्तः पर्याप्तश्चाश्चेति, चातुरिन्द्रियोऽपर्याप्तः पर्याप्तश्चेति, असज्ञिपञ्चेन्द्रियोऽपर्याप्तः पर्याप्तश्चेति। तथा सञ्जितिर्यड्नारकसुरगृहेषु- अंतदुगं ति। अन्त्यद्विकं सझिपञ्चेन्द्रियोऽपर्याप्तः पर्याप्तश्चेति। तथा नरि त्ति। मनुष्यगृहे। अंतदुगं ति। तदेव पूर्वोक्तमन्त्यं द्विकं सञिपञ्चेन्द्रियापर्याप्तपर्याप्तरूपम्। तथा एकादशमिति असज्ञिपञ्चेन्द्रियापर्याप्तलक्षणं तृतीयमपि जीवस्थानकं भवतीति। गतं जीवस्थानकद्वारम्।।१४।। अथ गुणस्थानकद्वारम्। तानि चतुर्दशेमानि[मूल] गुणमिच्छसाणमीसा, अविरयदेसा पमत्तअपमत्ता ।
नियट्टिअनियट्टिसुहमोवसंतखीणा सजोगियरा ॥१५॥ [व्याख्या] इह प्राकृतशैलीवशात् सूचनात् सूत्रमिति न्यायाद्वा पदैकदेशेऽपि पदसमुदायोपचाराद्वा एवं व्याख्यायते। गुण त्ति। गुणस्थानकानि तानि चामूनि चतुर्दश, तद्यथा- मिथ्यादृष्टिगुणस्थानम्, सासादनसम्यग्दृष्टिगुणस्थानम्, सम्यमिथ्यादृष्टिगुणस्थानम्, अविरतसम्यग्दृष्टिगुणस्थानम्, देशविरतगुणस्थानम्, प्रमत्तसंयतगुणस्थानम्, अप्रमत्तसंयतगुणस्थानम्, अपूर्वकरणगुणस्थानम्, अनिवृत्तिबादरसम्परायगुणस्थानम्, सूक्ष्मसम्परायगुणस्थानम्, उपशान्तकषायवीतरागछद्मस्थगुणस्थानम्, क्षीणकषायवीतरागछद्मस्थगुणस्थानम्, सयोगिकेवलिगुणस्थानम्। इयर त्ति। अयोगिकेवलिगुणस्थानं चेति।
___ तत्र मिथ्या = विपर्यस्ता दृष्टिः = जीवाजीवादिवस्तुप्रतिपत्तिर्यस्य भक्षितहृत्पूरपुरुषस्य सिते पीतप्रतिपत्तिवत् स मिथ्यादृष्टिः। मिथ्यात्वमोहनीयकर्मोदयाजिनदृष्टयथावस्थिततत्त्वार्थश्रद्धानरहित इत्यर्थः। गुणा: = ज्ञानदर्शनचारित्ररूपाः जीवस्वभावविशेषाः। तिष्ठन्ति गुणा अस्मिन्निति स्थानम्। ज्ञानादिगुणानामेवोपचयापचयकृतः स्वरूपभेदः। गुणानां स्थानं गुणस्थानम्। मिथ्यादृष्टेर्गुणस्थानम्। सास्वादनाद्यपेक्षया ज्ञानादिगुणानामपचयकृतः स्वरूपभेदो मिथ्यादृष्टिगुणस्थानम्।
ननु यदि मिथ्यादृष्टिस्ततः कथं तस्य गुणस्थानसम्भवः? गुणा हि ज्ञानदर्शनचारित्ररूपास्तत्कथं ते दृष्टौ विपर्यस्तायां भवेयुरिति? उच्यते, इह यद्यपि तत्त्वार्थश्रद्धानलक्षणात्मगुणसर्वघातिप्रबलमिथ्यात्वमोहनीयविपाकोदयात् जीवाजीवादिवस्तुप्रतिपत्तिरूपा दृष्टिरसुमतो विपर्यस्ता भवति तथापि काचिन्मनुष्यपश्वादिप्रतिपत्तिावन्निगोदावस्थायामपि तथाभूताव्यक्तस्पर्शनमात्रप्रतिपत्तिरविपर्यस्तापि भवति। यथातिबहलघनपटलसमाच्छादितायामपि चन्द्रार्कप्रभायां काचित् प्रभा। तथाहि- समुन्नतातिबहलजीमूतपटलेन दिवाकररजनीकरकरनिकरतिरस्कारेऽपि नैकान्तेन तत्प्रभानाश: सम्पाद्यते, प्रतिप्राणिप्रसिद्धदिनरजनीविभागाभावप्रसङ्गात्। उक्तं च
सुट्टवि मेहसमुदए, होइ पहा चंदसूराणमिति । (नन्दीसूत्र -७७, कर्मग्रन्थ पृ.६८)