________________
६
मनःस्थिरीकरणप्रकरणम्
भिनिवर्तकः तत्फलस्य च विशिष्टसातादेरुपभोक्ता, नरकादिभवेषु च यथाकर्मविपाकोदयं संसर्ता, सम्यग्दर्शनादिरत्नत्रयाभ्यासप्रकर्षवशाच्चाशेषकर्मांशापगमतः परिनिर्वाता स जीव आत्मा । तदुक्तम्
यः कर्ता कर्मभेदानां भोक्ता कर्मफलस्य च । संसर्ता परिनिर्वाता स ह्यात्मा नान्यलक्षणः ।। (शास्त्रवार्तासम्मुच्चयः स्त. १ / ९० ) तेषां जीवानां स्थानानि सूक्ष्मापर्याप्त - एकेन्द्रियत्वादयोऽवान्तरविशेषास्तिष्ठन्त्येषु जीवा इति कृत्वा जीवस्थानानि। तेषां स्वरूपं सङ्ख्यां चाह
[मूल] जियठाणा सुहमेयरइगिंदिबितिचउपणिदिसन्नियरा । पज्जअपज्जा चउदस, अपज्ज दुह लद्धिकरणेहिं ।। १० ।।
[व्याख्या] अत्र सूचामात्रकारित्वात् सूत्रस्य गाथायामनुक्तमपि विभक्तिसम्बन्धं पदसम्बन्धं च कृत्वा व्याख्यायते। जीवस्थानानि चतुर्दश भवन्ति । कथमित्याह - सुहुमेयरइगिति । सूक्ष्मा इतरे च बादरा एकेन्द्रियाः । बितिचउ त्ति। द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रिया इति । पणिदि त्ति । पञ्चेन्द्रियाः सञ्ज्ञिन इतरे च असञ्ज्ञिनः । एतानि सप्तापि पदानि पर्याप्तापर्याप्तभेदाच्चतुर्दश भवन्ति । तत्र सूक्ष्माः सूक्ष्मनामकर्मोदयवर्तिनः पृथिव्यादयः पञ्च सर्वलोकव्यापिनस्ते च बहवोऽपि तथाविधस्वाभाव्यान्न दृश्यन्ते । बादरनामकर्मोदयाद् बादरास्ते च लोके प्रतिनियतदेशवर्तिनः ।
नन्विह चक्षुर्ग्राह्यत्वं बादरत्वमिष्टं बादरस्याप्येकैकस्य पृथिव्यादिशरीरस्य चक्षुर्ग्राह्यत्वाभावात्। तस्माज्जीवविपाकित्वेन जीवस्यैव कञ्चिद्वादरपरिणामं जनयत्येतन्न शरीरपुद्गलेषु, किन्तु जीवविपाक्यप्ये- तच्छरीरपुद्गलेष्वपि काञ्चिदप्यभिव्यक्तिं दर्शयति तेन बादराणां बहुतरसमुदितपृथिव्यादीनां चक्षुषा ग्रहणं भवति, न सूक्ष्माणाम्, जीवविपाकिकर्मणः शरीरे स्वशक्तिप्रकटनमयुक्तमिति चैत्, नैवम्, यतो जीवविपाक्यपि, क्रोधो भ्रूभङ्गत्रिवलीतरङ्गितालिकफलीकक्षरत्प्रस्वेदजलकणनेत्राद्याताम्रत्वपरूषवचनवेपथुप्रभृतिविकारं कुपितनरशरीरेऽपि दर्शयति, विचित्रत्वात्कर्मशक्तेरिति । अपज्जह त्ति । अन्यत्र हि आयुर्विचारादावपर्याप्तशब्देन लब्ध्यपर्याप्ता एव गृह्यन्ते, इह पुनर्जीवस्थानकविचारे लब्धिकरणाभ्यां द्विधाप्यपर्याप्ता गृह्यन्ते।।१०।।
कथमिदमित्याह
[मूल] जं निरसुरमिहुणेसुं, जियठाणदुगं पए पए भणियं । न य ते लद्धिअपज्जा, तो इह अपज्जत्त दुविहावि ।।११।।
[व्याख्या] यतः सिद्धान्ते नारकाणां देवानां असङ्ख्यायुस्तिर्यङ्मनुष्याणां च स्थानस्थानेषु जीवस्थानकद्वयमुक्तम्। न च ते लब्ध्यपर्याप्ताः कथमपि स्युस्तस्मादत्र नारकादिकारणेन द्विधाप्यपर्याप्ता अधिक्रियन्त इति।।११ ॥
अथ करणापर्याप्तलब्ध्यपर्याप्तयोः पर्याप्तानां च गाथाद्वयेन स्वरूपमाह
[मूल] नियनियपज्जत्तीणं, अंतं एहिंति न पुण ता पत्ता । ते करणे अपज्जत्ता, जे उण नियनियपज्जत्तीणं ।। १२ ।। अंतं न जंति अंतरमरंति ते हुंति लद्धिअपज्जत्ता । नियनियपज्जत्तिअंतं, जे पत्ता ते उ पज्जत्ता ||१३||
[व्याख्या] निजनिजपर्याप्तीनां चतुःपञ्चषट्सङ्ख्यानां क्रमेण ये एकेन्द्रियाः, विकलासञ्ज्ञिपञ्चेन्द्रियाः,