________________
मन:स्थिरीकरणप्रकरणम्
व्याख्या] तत्रापि = पञ्चविंशतिद्वाराणां मध्ये गुणस्थानक-उपयोग-दृष्टिलक्षणानि त्रीणि द्वाराणि सूत्राभिप्रायेण कर्मग्रन्थाभिप्रायेण च द्विधा मुण = जानीहि। ततस्तथैव ध्यायेति सम्बन्धः। तथा आयुः स्थितिः कायस्थितिरवगाहः कर्माणीति चत्वारि द्वाराणि गुरुत्वलघुत्वाभ्यां जघन्यत्वोत्कृष्टत्वाभ्यां चिन्तयेति सण्टकः ।।६।।
तथा उत्तरेत्यादि। उत्तरप्रकृतयस्तथा द्विधा हेतव इति कर्मबन्धस्य मूलहेतव उत्तरहेतवश्च कषायाश्चेति चत्वारि द्वाराणि प्रतिगुणस्थानमिति। अयमभिप्राय:- इह पृथिव्यादिके गृहत्रयोदशके यत्र यत्र गृहे यावन्ति गुणस्थानानि भवन्ति तत्र तत्र गृहे तावत्सु गुणस्थानकेषु पृथक् पृथग् उत्तरप्रकृत्यादीनि चत्वारि द्वाराणि ध्येयानीति सम्बन्धः। तथैष मन:स्थिरीकरणार्थ: सूत्रेण सम्यग् भण्यमानोऽपि यदि यन्त्रकालेखनेन अङ्कतोऽपि प्रदर्श्यते तदा विशेषेण श्रोतॄणां प्रतीतिमायाति ध्यातृ-व्याख्यातॄणां च त्रिविधयोगनिरोधेन सम्पूर्णध्यानविधायी च स्याद्। उक्तं चमणसा वावारिंतो कायं वायं च तप्परीणामो। भंगियसुयं गुणंतो वट्टइ तिविहेवि झाणंमि।।
(आवश्यकनियुक्ति-१४७८) तथाअत्थोहाए तस्सेव माणसं भासणेण पुण वयणं। होइ च्चिय सुनिरूद्धो तल्लिहणाईहिं पुण काओ।।
( ) इति।। ६।। यन्त्रकलिखनोपाय: सार्द्धगाथया दर्श्यते[मूल] चउदस उड्डाहगिहा, मंगलपुढवीजलाईया ।।७।।
मंगल जियगुणमाई, तिरियं पणतीस जं तिहवगाहो ।
अडमूलपयडिएगं, मूलगिहं सेस तेवीसा ।।८।। व्याख्या] भूमिपट्टकादौ तिर्यगायताभिः पञ्चदशभी रेखाभिरूझ्यताभिश्च षडत्रिंषता रेखाभिर्नवत्यधिकचतु:शतीगृहात्मकं प्रथमायामूर्ध्वाध:पङ्क्तौ मङ्गलपदपृथ्वीजलादिपदयुक्तानि चतुर्दशगृहाणि भवन्ति। अथ तिर्यक्पङ्क्तिगृहसङ्ख्यां सङ्ख्योपायं चाह- मंगलजियगुणेत्यादि। तिर्यगायतप्रथमपङ्क्तौ तु मङ्गलपदजीवस्थानकगुणस्थानकादिपदोपेतानि पञ्चत्रिंशद्गृहाणि भवन्तीति। ननु पञ्चविंशत्या द्वारैः कथं पञ्चत्रिंशद् गृहाणीति ? उच्यते- जं तिहेत्यादि। यस्मादवगाहनाद्वारं त्रिधा मूलकर्मप्रकृतिद्वारं चाष्टधा एकं च मौलं मङ्गलपदगृह त्रयोविंशतिश्च यथावस्थितद्वाराणीति सर्वमीलने पञ्चत्रिंशदिति।।७।।८।। अथानन्तरं यद्विधेयं तदाह
[मूल] इय भूमिपट्टगाइसु, जंतं लिहिऊं पडं व ठविऊणं ।
___ तो गिहअंके दिंतो, चिंतेतो वा सरसु सुत्तं ।।९।। व्याख्या] सुगमा ।।९।।
अथ यथोद्देशं तथा निर्देशः इति न्यायात् प्रथमं जीवस्थानद्वारमभिधीयते। तत्र जीवति = प्राणान् धारयतीति जीवः। क इत्थम्भूत ? इति चेदुच्यते- यो मिथ्यात्वादिकलुषितरूपतया सातवेदनीयादिकर्मणाम१ चतुर्थं परिशिष्टं द्रष्टव्यम् ।