SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ४ कालोवि सुच्चिय जहिं जोगसमाहाणमुत्तमं लहड़ उ । दिवसनिसावेलाइनियमणं झाइणो भणियं । । जच्चिय देहावत्था जिया न झाणोव्वरोहिणी हो । झाइज्जा तयवत्थो ठिओ निसण्णो निवण्णो वा ।। सव्वासु वट्टमाणा मुणओ जं कालदेसचिट्ठासु । वरकेवलाइलाभं पत्ता बहुसो समयपावा ।। तो देसकालचिट्ठानियमो झाणस्स नत्थि समयंमि । जोगाण समाहाणं जह होइ तहा पयइअव्वं ॥। (ध्यानशतकम् - ३५ -४१ ) इत्यादीति गाथार्थः । । ३ ।। अथ यदुक्तं- ‘जीवगुणस्थानकादीन् जीवतत्त्वगुणान् ध्याय' इति तत्र के ते जीवगुणाः सङ्ख्याश्चेति गाथाद्वयेन दर्शयति मनःस्थिरीकरणप्रकरणम् १ [मूल] जियगुणठाणा जोगोवओग तणु लेस दिठ्ठि पज्जत्ति । पाणाउ आगइगई, कुल जोणी वेय कायठिई ||४|| संघयणं संठाणावगाह मूलियरपयडिबंधदुगं । समुघाय दुविहऊ, कसाय इइ झेयपणवीसा ॥५॥ [व्याख्या] इह स्थानशब्दस्य प्रत्येकमभिसम्बन्धात् जीवस्थानक - गुणस्थानक-योग-उपयोग-तनुलेश्या-दृष्टि-पर्याप्ति-प्राण- आयुष्क- आगति-गति-कुलकोटि-योनिलक्ष-वेद-कायस्थिति-संहनन-संस्थानअवगाह-मूलप्रकृतिबन्ध-उत्तरप्रकृतिबन्ध-समुद्धात - कर्मबन्धमूलहेतु-उत्तरहेतु-कषाय (या:) इत्येवंरूपा जीवतत्त्वगुणाः पञ्चविंशतिसङ्ख्या इह ध्यातव्या इति सम्बन्धसूत्र (म्) । जीवस्थानानि सूक्ष्मापर्याप्तैकेन्द्रियादीनि चतुर्दश, गुणस्थानानि मिथ्यादृष्टिगुणस्थानादीनि चतुर्दश, योगाः सत्यमनःप्रभृतय पञ्चदश, उपयोगाः मतिज्ञानादयो द्वादश, तनव औदारिकाद्याः पञ्च, लेश्याः कृष्णादिकाः षट्, दृष्टयः सम्यग्दृष्ट्यादिकास्तिस्रः, पर्याप्तय आहारपर्याप्त्यादिकाः षट्, प्राणाः स्पर्शनेन्द्रियादयो दश, आयुर्जघन्यादिकं त्रिविधं, आगतयो नारकागत्याद्याश्चतस्रः, गतयो नरकतिर्यड्नरामरशिवगतिरूपाः पञ्च, कुलानीहैव त्रयोदशमद्वारे वक्ष्यमाणस्वरूपाणि एककोटिकोटि-सप्तनवतिकोटिलक्षपञ्चाशत्कोटिसहस्रप्रमाणानि १९७५ शून्यानि - ११, योनयोऽपि तत्रैव द्वारे वक्ष्यमाणा चतुरशीतिलक्षसङ्ख्या ८४ शून्यानि -५, वेदाः स्त्रीवेदादयस्त्रयः, कायस्थितिः पृथिव्यादीनां मृत्वा मृत्वा पुनः पुनस्तत्रैव काये जन्मरूपा जघन्यादिका त्रिविधा, संहननानि अस्थिसम्बन्धरचनाविशेषरूपाणि वज्रऋषभ - नाराचादीनि षट्, संस्थानानि शरीराकारविशेषरूपाणि समचतुरस्रादीनि षट्, अवगाहस्तनुप्रमाणं जघन्यादि त्रिविधम्, मूलप्रकृतयो ज्ञानावरणाद्या अष्टौ, उत्तरप्रकृतयो बन्धमाश्रित्य मतिज्ञानावरणादिका विंशत्युत्तरशतसङ्ख्या:, समुद्धाता वेदनादिकाः सप्त, कर्मबन्धस्य मूलहेतवो मिथ्यात्वादयश्चत्वारः, उत्तरभेदास्तु आभिग्रहिकमिथ्यात्वादयः सप्तपञ्चाशत् कषाया अनन्तानुबन्धिक्रोधादयः षोडशेति पञ्चविंशतेरपि द्वाराणां सङ्क्षेपार्थः, विस्तरार्थस्तु प्रतिद्वारं यथावसरं पुनर्भणिष्यत इति गाथाद्वयार्थः।।४।।५।। अथ निर्विशेषतया पञ्चविंशतौ द्वारेषु ध्येयतया उक्तेष्वपि एकादशसु द्वारेषु सार्द्धगाथया विशेषमाह[मूल] तत्थ विगुणउवओगा दिट्ठी मुण सुत्तकम्मगंथेहिं । आउठिईकायठिईवगाहकम्माणि लहुगुरुत्तेहिं ।।६।। गीतिः' ।। उत्तरपयडि तह दुह हेऊ य कसाय पइगुणं चउरो । आर्याप्रथमदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः । दलयोः कृतयतिशोभां तां गीतिं गीतवान् भुजङ्गेश: ।। वृत्तरत्नाकरः-८ ।
SR No.009261
Book TitleMan Sthirikaran Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Rupendrakumar Pagariya
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy