________________
मन:स्थिरीकरणप्रकरणम्
श्रोतभिर्विधेयः। केवलमिह समुदायार्थमात्रमेव कासाञ्चिदेव गाथानां भणिष्यते, न सर्वासाम् । तत्रापि प्राकृतत्वात्सूत्रे सामस्त्येनानिबद्धस्य सूचामात्रेण सूचितस्य विवक्षितार्थस्य क्रियाकारकसम्बन्धेन सम्पूर्णीकृत्य प्रदर्शने प्राकृतग्रन्थव्याख्यानलक्षणं हेतुस्तच्चेदम् । नन्वत्र सूत्रे एतदनभिहितमपि अन्यथाभिहितमपि वा कस्मादित्थं व्याख्यायते? इति चेदुच्यते, प्राकृतत्वात्, क्वापि सूचामात्रकृत्त्वात्सूत्रस्य, क्वाप्युपलक्षणव्याख्यानात्, एवं पदैकदेशे पदसमुदायो-पचारात्, विभक्तिव्यत्ययात्, वचनव्यत्ययात्, लिङ्गव्यत्ययात्, विभक्तिलोपात्, क्रियाध्याहारात्, सम्भवच्चशब्दा-द्यध्याहारात्, ह्रस्वानुस्वारद्विर्भावानां यथौचित्येन भावाभावाभ्याम्, बहुवचनप्रयोगेऽपि द्विवचनस्य षष्ठीस्थानेऽपि चतुर्थी व्याख्यानात्, अकारप्रश्लेषात्, एवमन्यान्या प्राकृतं बहुलमिति (सिद्धहेम.८.१.२) वचनाल्लब्धेभ्यः पूर्वविद्वज्जनप्रतिपादितेभ्यो विशेषलक्षणेभ्यः सूत्रे साक्षादनभिहितापि विविक्षतार्थसङ्गतिर्विधेयेति । तथा भगवतीवृत्तौ श्रीमदभयदेवसूरिभिरप्युक्तम्
क्वचित्सौत्र्या शैल्या क्वचिदधिकृतप्राकृतवशात् क्वचिच्चार्थापत्त्या क्वचिदपि समारोपविधिना । क्वचिच्चाध्याहारं क्वचिदविकलप्रक्रमबलादियं व्याख्या ज्ञेया क्वचिदपि तथाम्नायवशतः ।।
(भगवतीवृत्तिः ? )
तथा विभक्त्यन्तपदावसाने केवलयोरेकारौकारयोः क्वापि लघुतापीत्यादि ।
अथ प्रस्तुतगाथार्थः प्रतन्यते । यस्मात्तत्त्वनवके जीवतत्त्वमादिभूतं पूर्वमुक्तं ततस्तस्यैव जीवतत्त्वस्येह जीवस्थानकगुणस्थानकादीन् पञ्चविंशतिसङ्ख्यान् जीवगुणान् जीवपर्यायान् ध्याय = मनोवाक्कायान् सम्यगेकाग्रीकृत्य चिन्तयेति सम्बन्धः ।
अथ केष्वाधारेषु चिन्तयामीत्याह - पुढवीत्यादि । पृथव्युदकाग्निमरुत्तरुद्वित्रिचतुरिन्द्रियासञ्ज्ञिपञ्चेन्द्रियतिर्यक्सञ्ज्ञिपञ्चेन्द्रियतिर्यङ्मनुष्यनारकदेवलक्षणेषु त्रयोदशसु स्थानेष्विति गाथाक्षरार्थः।
अथ ‘जीवतत्त्वस्वरूपं ध्याय' इत्यनेन धर्मध्यानं विधेयतयोक्तम्। ततः पूर्वमनभ्यस्तध्यानेन तत्प्रथमतया ध्यानाभ्यासं चिकीर्षता स्त्रीपशुपण्डकविवर्जितः तदुत्थागन्तुकहरितबीजादिकुन्थुपिपीलिकादंशमशकादिजन्तुसङ्घातसम्पातरहितो जनसञ्चाराभावात् निराकुलो मनोज्ञेतरशब्दादिपञ्चकध्यानकण्टकसम्पातमुक्तः तथाविधशीतवातातपाद्याबाधासम्बन्धपरित्यक्त एकान्तरूपः क्षेत्रविभागः समाश्रयणीयः । तथा कालोऽपि मध्यरात्ररजनीपश्चिमयामादिर्दिनमध्याह्नरूपो वा अन्यान्यकार्यविधिविधानसन्धानरहितः । किं बहुना ? सर्वैरपि व्याक्षेपहेतुभिर्निद्राप्रचलाऽऽलस्यादिभी रहितो ध्यानप्रवर्तनहेतुः । तथा देहावस्थायां च ध्याता स्वयं पूर्वाभिमुख उत्तराभिमुखो वा । पर्यङ्कासनस्थो नाभेरधस्तात् परस्पराभिमुखमूर्ध्वाधो भावेन व्यवस्थापितोत्तानीकृतसरलिताङ्गुलिकरकमलयुगलो नासाग्रभागनिवेशितस्थिरतरतार- कनीनिकानुगतलोचनद्वितयो, मनसा प्रस्तुतध्येयं विना अन्यत् किमपि अचिन्तयन्, वचसा च किमप्यजल्पन्, वपुषा चान्यत् किमप्यचेष्टमानः, चक्षुः श्रोत्राद्युपयोगं चान्यमकुर्वाणः, केवलमनोवृत्त्यैव जीवाजीवादितत्त्वगतस्वभावभावनतत्परः स्यादिति । इत्थं च सततविहितध्यानाभ्यासाच्चिकीर्षानन्तरमेव प्रवर्तमानधर्मध्यानः सन् यत्रापि तत्रापि देशे जनशून्ये वा जनाकीर्णे वा, कालेऽपि यत्र तत्र वा दिवसनिशाविभागे, यदा क्षणिक : (सनिकः) शरीरावस्थायामप्यूर्ध्वस्थितो निषण्णो निर्विण्णो वा निश्चलीकृतयोगयो धर्मध्यानं विदध्यादिति । उक्तं चात्र
निच्वं चिय जुवइ पसु नपुंसग कुसील वज्जियं जइणो । ठाणं वियणं भणियं विसेसओ झाणकालंमि।। थिरकयजोगाणं पुण मुणीण झाणेसु निच्चलमणाणं । गामंमि जणाइण्णे सुण्णे रण्णे व न विसेसो।। तो जत्थ समाहाणं होइ मणोवायकायजोगाण । भूउवरोहरहिओ सो देसो झायमाणस्स ।।