________________
मन:स्थिरीकरणप्रकरणम्
यथोक्तप्रतिलोमं मन्थान्तराणि संहरति, जीवप्रदेशान् सकर्मकान् सङ्कोचयति । षष्ठे मन्थानमुपसंहरति घनतरसङ्कोचान्(त्), सप्तमे कपाटमुपसंहरति दण्डात्मनि सङ्कोचात्, अष्टमे दण्डमुपसंहृत्य शरीरस्थ एव भवति । उक्तं च
७३
दण्डः (ण्डं) प्रथमे समये, कपाटमथ चोत्तरे तथा समये । मन्थानमथ तृतीये, लोकव्यापि चतुर्थे तु । । (प्रशमरतिः - २७३ ) संहरति पञ्चमे त्वन्तराणि मन्थानमथ पुनः षष्ठे । सप्तमके तु कपाटं, संहरति ततोऽष्टमे दण्डम् ।।
तत्र च
औदारिकप्रयोक्ता, प्रथमाष्टमसमययोरसाविष्टः । मिश्रौदारिकयोक्ता, सप्तमषष्ठद्वितीयेषु ।। कार्मणशरीरयोगी, चतुर्थके पञ्चमे तृतीये च । समयत्रयेऽपि तस्मिन्
भवत्यनाहारको नियमात्।।
( प्रशमरतिः - २७५ - २७७)
वाङ्मनसोस्त्वप्रयोक्तैव प्रयोजनाभावादिति । परित्यक्तसमुद्घातः कारणवशाद्योगत्रयमपि व्यापारयति। तथाहि- अनुत्तरसुरमनःपर्यवज्ञान्यादिभिः पृष्टः सन् सत्यमसत्यामृषं वा मनो योगं प्रयुङ्क्ते, आमन्त्रणादौ सत्यमसत्यमृषं वा वाग्योगम्, काययोगमप्यौदारिकं प्रातिहार्यपीठफलकादिप्रत्यर्पणादौ व्यापारयति । अन्तर्मुहूर्तमात्रे च काले शेषे भगवान् योगनिरोधं करोति ।
२
अत्र कश्चिदाह- जघन्यत एवा (ता )वता कालेन उत्कर्षतस्तु षड्भिर्मासैः, तच्चायुक्तम्, प्रज्ञापनायां समुद्धातपदे एवमभिधानात् - कायजोगं जुंजमाणे आगच्छिज्ज वा गच्छिज्ज वा चिट्ठिज्ज वा निसीएज वा तुयट्टिज्ज वा उल्लंघिज्ज वा पल्लंघिज्ज वा पाडिहारियं पीढफलगसेज्जासंथारगं पच्चप्पिणिज्ज इति। (प्रज्ञापना पद-३६, सूत्र- २१७४)
अत्र हि समुद्धातानन्तरं पीठफलकादीनां प्रत्यर्पणमेवोक्तम्, न त्वादानमपि । यदि पुनः षण्मासानपि यावद् भगवाँस्तिष्ठेत् तत आदानमपि वर्षाकालादौ सम्भवतीति तदप्युच्येत, न चोक्तम्, तस्मादपव्याख्यानमेतदिति। तथेह दण्डं कुर्वन् केवली जीवमध्यप्रदेशान् परस्परावियोगिनो रुचकसञ्ज्ञितान् अष्टौ जीवप्रदेशान् तथाकथञ्चिद्रचयति यथा कस्यापि कपाटसमयेऽपि मन्थानसमये पुनरवश्यमेव सर्वस्यापि ते जीवमध्यरुचस्यकस्यष्टापि ( रुचकस्याष्टावपि ) ? जीवप्रदेशा मेरुमध्यव्यवस्थितस्य क्षेत्ररुचकस्य सम्बन्धिष्वष्टस्वपि नभः प्रदेशेष्वेकैकभावेन समवयन्तीति । इह च तिर्यग्लोकस्य मध्यभागे आयामविष्कम्भाभ्यां रज्जुप्रमाणौ सर्वप्रतराणां क्षुल्लकौ द्वौ नभः प्रदेशप्रतरौ, तयोश्च मेरुमध्यप्रदेशमध्यम्, तत्र च मध्ये उपरितनप्रतरस्य ये चत्वारो नभःप्रदेशा ये चाधस्तनस्य चत्वारः तेषामष्टानामपि गोस्तनाकाररूपतया व्यवस्थितानामाकाशप्रदेशानां समये च इति परिभाषेति ।
सम्प्रति प्रस्तुतमभिधीयते । असंखे इत्यादि । केवलिसमुद्धातवर्जितेषु वेदनादिषु षट्स्वपि कालप्रमाणमन्तर्मुहूर्तम्, तानि चान्तर्मुहूर्त्तानि - अष्टौ समयानादि कृत्वा समयोनघटिकाद्वयं यावत्समयोत्तरवृद्ध्या असङ्ख्येयभेदानि अतस्तद्विशेषार्थमाह- असंखेत्यादि । इह विभक्तिलोपात् पदैकदेशे पदसमुदायोपचाराद्
१ अत्र स्थानाङ्गवृत्तिः अभयदेवसूरिकृताद्वितीये तमेव दण्डं पूर्वापरदिग्द्वयप्रसारणात् पार्श्वतो लोकान्तगामि कपाटमिव कपाटं करोति । तृतीये तदेव दक्षिणोत्तरदिग्द्वय प्रसारणात् मन्थानं करोति । अत्र कपाटसमये पूर्वापरदिग्द्वयम्, मन्थानसमये दक्षिणोत्तरदिग्द्वयस्य प्रसारणं उक्तम्। मनःस्थिरीकरणप्रकरणे पुनः द्वयोरपि समययोः दिक्चतुष्टये प्रसारणं कपाटं चोक्तमिति विशेषः।
नावगम्यतेऽस्यार्थः ।