SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ७२ मन:स्थिरीकरणप्रकरणम् वक्त्रोदरादिरन्ध्राणि कर्णस्कन्धाद्यपान्तरालानि चार्पूयाऽऽयामतो विस्तरतश्च शरीरमात्रं क्षेत्रमभिव्याप्यान्तर्मुहूर्तं यावदवतिष्ठते। तस्मिंश्चान्तर्मुहूर्ते यथास्वं प्रभूतासद्वेद्यकर्मपुद्गलानां कषायकर्मपुद्गलानामायुःकर्मपुद्गलानां च परिशातं करोति। एतत्सर्वं त्रिष्वपि समम् । मरणसमुद्धाते त्वयं विशेषः - आयामतः स्वशरीरातिरेकं जघन्यतोऽङ्गुलासङ्ख्येयभागम् उत्कर्षतोऽसङ्ख्ये-ययोजनान्येकदिशि क्षेत्रमभिव्याप्य वर्तत इति । वैक्रियसमुद्धातगतः पुनर्जीवप्रदेशान् शरीराद्बहिर्निका(ष्का)श्य शरीरविष्कम्भबाहुल्यमानमायामतः सङ्ख्येययोजनप्रमाणं दण्डं निसृजति । निसृज्य च यथास्थूलान् वैक्रिय-शरीरनाम-कर्मपुद्गलान् प्राग्वच्छातयति । तथा चोक्तम् वेउव्वियसमुग्घाएणं समोहणइ समोहणित्ता संखेज्जाई जोयणाई दंड निसरइ निसरित्ता अहाबायरे पोग्गले परिसाडेइ। (कल्पसूत्रम् - २६) इति। एवमाहारकतैजससमुद्घातावपि भावनीयौ । तथाहि - आहारकसमुद्घातगतो जीवप्रदेशान् शरीराद्बहिर्निःष्काश्य शरीरविष्कम्भबाहल्यमानमायामतः सङ्ख्येययोजनप्रमाणं दण्डं निसृजति । निसृज्य च यथास्थूलानाहारकशरीरनामकर्मपुद्गलान् प्राग्वच्छातयति । तथा च (चो) क्तम् आहारगसमुग्धाएणं समोहणइ समोहणित्ता संखिज्जाई जोयणाई दंड निसरइ | ( ) [एवं तैजससमुद्धातेऽपि तथाहि - तैजससमुद्धातगतो जीवप्रदेशान् शरीराद्बहिर्निःकाश्य शरीरविष्कम्भबाहल्यमानमायामतः सङ्ख्येययोजनप्रमाणं दण्डं निसृजति ।] निसृज्य च यथास्थूलान् तैजसशरीर-नामकर्मपुद्गलान् प्राग्वत् शातयति। तथा चोक्तम् तेय (स) समुग्धाएणं समोहन्नड़ समोहन्नित्ता संखिज्जाई जोयणाई दंड निसरइ निसरित्ता अहा बायरे पुग्गले परिसाडे इति । ( ) इह च समुद्धातत्रयो(यं) यं (अं) तमुहु छसु वि। सविउव्वं ति। आद्यमेव समुद्धातत्रयं वैक्रियसहितं पवननारकयोः। तथा पूर्वोक्ता एव चत्वारस्तैजससमुद्धातसहिताः पञ्च तिर्यक्सुरयोः। अथ प्रसङ्गतः समुद्धातानां कालप्रमाणमाह- अडेत्यादि । अष्टौ समयाः केवलिसमुद्धाते। उक्तं च स्थानाङ्गाष्टमाध्ययने असमईए केवल समुग्धाए पं तं पन्नत्ते तंजहा - ] । पढमे समए दंड करेइ, बितिए समए कवाडं करेइ, तइए समए मंथं करेइ, चउत्थे समए लोगंतं पूरेइ, पंच (मे) समए लोगं पडिसाहरेइ, छट्ठे समए मंथ पडिसाहरेइ, सत्तमे समए कवाडं पडिसाहरेइ, अट्टमे समए दंडं पडिसाहरेइ । (स्थानाङ्गम् अ.८, सू. ६५२ ) अट्ठे(डे)त्यादि। तत्र समुद्धातं प्रारभमाणः प्रथममेवावर्जीकरणमभ्येति आन्तर्मौहूर्तिकम् उदीरणावलिकायां कर्मप्रक्षेपव्यापाररूपमित्यर्थः। ततः समुद्धातं गच्छति । तत्र चाद्यसमये स्वदेहविष्कम्भमूर्ध्वमधश्चायतमुभयतोऽपि लोकान्तगामिनं जीवप्रदेशसङ्घातं दण्डमिव दण्डं केवली ज्ञानाभोगतः करोति । द्वितीयसमये पूर्वापरं दक्षिणोत्तरं चात्मप्रदेशानां प्रसारणात्पार्श्वतो लोकान्तगामि कपाटमिव कपाटं करोतीति । तृतीये समये तदेव कपाटं दक्षिणोत्तरं पूर्वापरं वा दिग्द्वयप्रसारणात् मन्थिसदृशं मन्थानं लोकान्तप्रापिणमारचयति । एवं च प्रायो लोकस्य बहु पूरितं भवति मन्थान्तराणि चापूरितानि भवन्ति, अनुश्रेणिगमनाज्जीवप्रदेशानामिति । चतुर्थे तु समये मन्थान्तराण्यपि सकललोकनिष्कुटैः सह पूरयति । ततश्च सकललोकः पूरितो भवतीति । तदनन्तरमेव पञ्चमसमए (ये) १ टीकायाम् एष पाठो न दृश्यते ।
SR No.009261
Book TitleMan Sthirikaran Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Rupendrakumar Pagariya
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy