________________
मन:स्थिरीकरणप्रकरणम्
७१
तथा
[मूल] विगलसुरसुहमनारयतिगाणि आहारदुगविउव्विद्गं ।
तत्थ इगि थावरायव, मुत्तूण सयं नरि य मिच्छा ।।११८।। वेउव्वाहारगं, नारयसुहमविगलतियगाणि ।
तित्थं च मुत्तु तिगहियसयमिह बंधंति मिच्छसुरा ।।११९।। व्याख्या] ननु नारकाणां सास्वादनादिन्यनभिधाय कथं देवानां मिथ्यादृष्टिगुणस्थानकम् उच्यते? सत्यम्, एतेषां प्रथमगुण एव सङ्ख्याविशेषो न तु सास्वादनादित्रये। अतोऽसौ प्रथमं पृथक् पृथक् प्रादर्शीति ।।११८।।११९।।
[मूल] हुंछेनपुमिच्छ विणा, छन्नवई निरय साण सुरसाणा ।
नपुमिच्छायवहुंछे, इगथावरऊण छन्नवई।।१२०।। मीसा निरसुरसयरिं, नराउ साणंत पंचवीस विणा।
तित्थनराउगसहियं, पिगसयरिं सम्मनिरयसुरा।।१२१।। व्याख्या] स्पृ(स्प)ष्टाश्चतस्रोऽपि।।१२०।।१२१।। अथ समुद्धातद्वारम्। ते च सप्तामी[मूल] वेयणकसायमरणा वेउव्वितेयहारकेवलिया ।
समुग्घाया नरि सत्त वि, भूदतरुविगलअमण आइतिगं ।।१२२।। गीतिः।। सविउव्वं मरुनिरए, सतेयसमुग्घाय पंच तिरियसुरे ।
अडसमया केवलिए, असंखसमयंतमुह छसु वि ।। १२३।। व्याख्या] अथ समुद्धात इति कः शब्दार्थः? उच्यते, समित्येकीभावे उत् = प्राबल्ये। एकीभावेन प्राबल्येन च घातः समुद्धातः। केन सह एकीभावगमनमिति चेद् ? उच्यते, अर्थाद्वेदनादिभिः। तथाहि- यदा आत्मा वेदनादिसमुद्धातगतो भवति तदा वेदनाद्यनुभवज्ञानपरिणत एव भवति, नान्यज्ञानपरिणतः।
प्राप(ब)ल्येन कथं घात इति चेद् ? उच्यते, इह वेदनीयादिसमुद्धातपरिणतो बहून् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्य उदयावलिकायां प्रक्षिप्यानुभूय च निर्जरयति = आत्मप्रदेशैः सह संश्लिष्टान शातयतीति भावः।
___एते च समुद्धाताः सप्तापि क्रमेणाऽसद्वेद्यक्रोधादिकषायचारित्रमोहनीय-अन्तर्मुहूर्तशेषायुःकर्म-वैक्रियशरीरनामकर्म-तेजस-शरीरनामकर्म-आहारकशरीरनामकर्मणाम्, सदसदद्वेद्यशुभाशुभनामोच्चैनीचैर्गोत्रकर्मणां च परिशातकारिणः।
___ तत्र वेदनासमुद्धातगत आत्माऽसद्वेद्यकर्मपुद्गलानाम्, तथा क्रोधादिकषायसमुद्धातगतः क्रोधादिकषायचारित्र-मोहनीयपुद्गलानाम्, तथा मरणसमुद्धातगतोऽन्तर्मुहूर्तायु:शेषकर्मपुद्गलानां परिशातं करोति। तथाहिवेदना” जीवस्तथा कषायाकुलस्तथा मरणसमुद्घातगतश्च स्वप्रदेशाननन्तानन्तकर्मस्कन्धवेष्टितान् शरीरादहिर्विक्षिप्य
१ मूले 'निरय' शब्दो न दृश्यते। २ टीकायाम् एषा गाथा न दृश्यते ।