________________
मन:स्थिरीकरणप्रकरणम्
व्याख्या। असङ्ख्याः = सङ्ख्यातीताः समया यत्र तदसङ्ख्यसमयं तच्च तदन्तमुहूर्तं चेति समासः। तदिह समुद्धातषट्के प्रमाणत्वेन ज्ञातव्यम्। उक्तं च प्रज्ञापनायां समुद्धातपदे
वेयणासमुग्घाए णं भंते ! कइ समईए पन्नत्ते? गो/यमा!] असंखेजसमईए अंतोमुहुत्तिए एवं जाव आहारसमुग्घाए इति। (प्रज्ञापना पद-३६, सूत्र-२०८७)।।१२२।।१२३।। अथ केवलिसमुद्धातं कः करोति को वा न करोति ? इत्याशङ्क्याह
[मूल] छम्मासवसेसाऊ, नियमा न करेइ सो समुग्घायं ।
हीणे करेइ नियमा, अहिए भयणा उ केवलिणो ।।१२४।। व्याख्या] यस्य षट्सु मासेषु समयेनाप्यन्यूनाधिकेषु केवलज्ञानमुत्पन्नं सोऽवश्यं समुद्धातं न करोति। यतस्तस्य तथास्वाभाव्यादायुषः शेषकर्मभिर्वेषम्यं नास्ति ततो न करोति। उक्तं च प्रज्ञापनायामअगंतूण समुग्घायं, अणंता केवली जिणा। जरमरणविप्पमुक्का, सिद्धिवरगई गया।।
(प्रज्ञापना पद-३६, सूत्र-२१७०, गाथा-२३०) हीने पुनरायुषि करोति, तस्यावश्यं कर्मणां वैषम्यसम्भवात्। षण्मासेभ्योऽधिके पुनर्भजना। यस्य तथा स्वाभाव्यात्कर्मसाम्यं भवति स न(नै)व करोति। इतरे तु
नाऊण वेयणिज्जं, अइबहुयं आउयं च थोवागं। गंतूण समुग्घायं, खवंति कम्मं निरवसेसं।। ()।।१२४।। अथ कर्मबन्धे मूलहेतुद्वारमाह[मूल] बंधस्स मिच्छअविरइकसायजोगो त्ति मूल हेउचऊ ।
पुढवाइतेरसेसु वि, पएसु मिच्छंमि ते सव्वे ।।१२५।। व्याख्या] पूर्वार्द्धं सुगमम्। अथैतान् मूलहेतून् पृथिव्यादिगृहेषु प्रतिगुणस्थानं चिन्तयन्नाह- पुढवाइ इत्यादि। सुगमं च।। १२५।। ।
[मूल] कम्मा भूदवणेसुं, साणं पि तहिं अमिच्छया तिन्नि ।
अह बिंदिमाइ अट्ठसु, गिहेसु साणंमि हेउतिगं ।।१२६।। व्याख्या ] व्यक्ता। नवरं तेजोवाय्वोः सास्वादनाभावान्नात्र सङ्ग्रहः।।१२६।।
तथा
[मूल] सन्नितिरिमणुयनारयसुराण मीसंमि तह य अजियंमि ।
तह तिरिमणु देसे वि य, हेउतिन्नेव मिच्छ विणा ।।१२७।। व्याख्या] स्पष्टा।।१२७।। [मूल] छट्ठाइ दसंतेसुं, कसायजोगा नरेसु दो हेऊ ।
गुणतियगे जोगु च्चिय, हेउअभावो अजोगम्मि ।।१२८।। व्याख्या] सुगमा। इह च पूर्वमेव नारकदेवयोः पुढवाइ इत्यादिना (गा. १२५), तथा बिंदियमाइ इत्यादिना (गा. १२६), तथा सन्नितिरियमणुए इत्यादिना (गा. १२७) च गुणचतुष्केऽपि मूलहेतुभणनान्नेह मनुष्यानन्तरं तौ चिन्तिताविति।।१२८।।