________________
मन:स्थिरीकरणप्रकरणम्
[मूल] इय कम्मसु बंधट्टिती, वृत्ता तिविहं भणामि अहुणा ऊ । ठीबंधाबाहोदय, विसयकालप्पमाणं तु । । ९८ ।।
[व्याख्या] इय त्ति। इत्येवमष्टानामपि कर्मणां स्थितिबन्धस्तावत् पूर्वोक्तप्रकारेण द्विधापि प्रदर्शितः । अधुना स्थितिविषयमबाधाविषयमुदयविषयं च त्रिविधमपि कालप्रमाणं भणामीति सम्बन्धः।। ९८।।
तच्चेदम्
[मूल] ठिइबंधु अबाहुदया, दुन्नि वि बंधोदयंतरमबाहा । उदओ अबाहु उवरिं, कम्मणु पुग्गलरसाणुभवो ।। ९९।।
६७
[व्याख्या ] इह सूचामात्रकारित्वात् सूत्रस्य यथायुक्तपदाध्याहारेण क्रियाकारकसम्बन्धं कृत्वा गाथार्थः प्रतन्यते। अबाधाकालोदयकालौ द्वावपि समुदितौ स्थितिबन्धकालः । तथा कर्मणां बन्धकालादुत्तरं उदयकालाच्च पूर्वं यदन्तरं स अबाधाकालः । तथा अबाधाकालादुपरि यः कार्मणपुद्गलानां तद्रसस्य चानुभवनाद्वा स उदयकाल इति गाथा सङ्क्षेपार्थः। व्यासः पुनरयं - स्थितिबन्धकालो जघन्यस्तावदायुषि क्षुल्लकभवग्रहणम्, घातिचतुष्टये अन्तर्मुहूर्ताः, नामगोत्रयोरष्टौ मुहूर्तम्, सकषायवेदनीयस्य द्वादशमुहूर्ता इति । अयमेव च यथास्वं समयोत्तरवृद्ध्या प्रवर्द्धमानस्तावद् वर्द्धते यावदायुषि पूर्वकोटित्रिभागाधिकानि त्रयस्त्रिंशतराणि। तथा सागरकोटीकोटीनां विंशतिर्नामगोत्रयोः, त्रिंशत् ज्ञानावरणदर्शनावरणवेद्यविघ्नेषु, सप्ततिर्मोहनीये । इत्येवंरूप अबाधाकालोदयकालद्वयात्मक उत्कृष्टस्थितिबन्धकालो भवतीति अबाधाकालः।
इह निजनिजहेतुभिः कर्मणां यथास्वं जघन्यमध्यमोत्कृष्टस्थितिबद्धानां च बन्धानन्तरमेव उदयो न भवति। किन्तु कियतापि व्यवधानेन यच्च व्यवधानं सोऽबाधाकालः । स च जघन्यः सर्वेषामपि कर्मणां जघन्यायां स्थितौऽन्तर्मुहूर्तरूपो। यदाह
अंतमुहुत्तमबाहा, सव्वासिं सव्वहिं डहरबंधे इति । ( )
ततः स एव समयोत्तरवृद्ध्या प्रवर्द्धमानस्तावद्वर्द्धते यावदायुषि पूर्वकोटित्रिभागरूपः । नामगोत्रयोर्द्वे वर्षसहस्रे। ज्ञानदर्शनावरणवेद्यविघ्नेषु त्रीणि वर्षसहस्राणि । मोहनीये सप्तवर्षसहस्राणि उत्कृष्टोऽबाधाकाल इति।
अथोदयकालः। तत्र कर्माष्टकस्य यथास्वं जघन्यमध्यमोत्कृष्टस्थितिभिर्बद्धस्य सम्बन्धी योऽबाधाकालोदयकालद्वयात्मकस्थितिबन्धकालः । स एव यथास्वम् अबाधाकालेनोनीकृतो निजनिजकर्मदलिकतद्रसानुभवनविशेषित उदयकालोऽभिधीयते । स च
मुत्तुमकसाय हुस्सेत्यादि (सूक्ष्मार्थविचारसारोद्धार - ६५) गाथोक्तो यथास्वं लघीयसा अबाधान्तर्मुहूर्तेनोनो जघन्यः। ततः सोऽपि यथास्वमष्टस्वपि प्रकृतिषु समयोत्तरवृद्ध्या प्रवर्द्धमानस्तावद्वर्द्धते यावदायुषि सर्वाबाधारहितः आयुः कर्मदलिकतद्रसानुभवनरूपसम्पूर्णः त्रयस्त्रिंशदतरात्मक उत्कृष्ट उदयकालो भवतीति । एवं नामगोत्रयोर्वर्षसहस्रद्वयरूपाबाधोनो विंशतिविंशतिसागरकोटीकोटीरूपः । तथा ज्ञानदर्शनावरणवेद्यविघ्नेषु वर्षसहस्रत्रात्मक अबाधोनस्त्रिंशदतरकोटीकोटीरूपः । तथा मोहे वर्षसहस्रसप्तकस्वरूपाबाधोनः सप्तप्त्यतरकोटीकोटीरूप इति गाथार्थः ।। ९९ ।।
अथोत्तरप्रकृतिबन्धसङ्ख्याद्वारम्
[मूल] पण नव दुग छव्वीसा, चउरो सत्तट्ठि दुन्नि पंचेव । उत्तरपयडीणेवं, वीससयं बंधमासज्ज ।। १०० ।।