SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ मन:स्थिरीकरणप्रकरणम् व्याख्या] कण्ठ्या। नवरं सम्यक्त्वमिश्रयोर्बन्धाभावान्मोहे षड्विंशतिः। तथा पिण्डप्रकृत्युत्तरभेदैकोनचत्वारिंशतः प्रकृत्यष्टकस्य त्रसादिविंशतेश्च मीलने नामकर्मणि सप्तषष्टिः।।१०।।। इह पृथिव्यादीनामुत्तरप्रकृतिबन्धसङ्ख्याद्वारे भण्यमाने स्थाने स्थाने मिथ्यात्वान्तेन प्रकृतिषोडशकेन सास्वादनान्तेन च प्रकृतिपञ्चविंशतिकेन प्रयोजनं भावीति। ततः प्रथमत एव प्रकृतीनां षोडशकस्य पञ्चविंशतेश्चैकैकगाथया सङ्ग्रहमाह [मूल] मिच्छं नपुनिरयतिगं, हुंडं छेवट्ठ थावरचउक्कं । इगिविगलतिगं आयवमिइ पयडी सोल मिच्छंता ।।१०१॥ व्याख्या] कण्ठ्या । नवरं निरयतिगं ति। नरकगतिनरकानुपूर्वीनारकायूरूपम्। थावरचउक् ति। स्थावरसूक्ष्म-अपर्याप्त-साधारणरूपम्। मिच्छंत त्ति। मिथ्ये = मिथ्यात्वे अन्तो यासां ता मिथ्यात्वान्ताः।।१०१।। [मूल] थीणतिगित्थीतिरितिग, अण नी कुखगइ उजोय दुभगतिगं । मज्झिमसंघयणागिइ, चउ चउ पणवीस साणंता ।।१०२।। व्याख्या] सुगमा। नवरं थीणतिगं ति। निद्रानिद्रा-प्रचलाप्रचला-स्त्यानर्द्धिरूपम्। तिरतिगं च तिर्यग्गति-तिर्यगानुपूर्वी-तिर्यगायूरूपम्। दुभगतिगं ति। दुर्भग-दुस्वरानादेयरूपम्। मज्झीत्यादि। प्रथमषष्ठवर्जानि द्वितीय-तृतीय-चतुर्थ-पञ्चमानि संहननानि मध्यमानि चत्वारि। आगिइ त्ति। आकृतयोऽपि संस्थानापरपर्याया मध्यमाश्चतस्रः। इत्येवं पञ्चविंशतिः प्रकृतयः साणंत त्ति। सास्वादनगुणस्थानेऽन्तो यासां तास्तथा। अयमभिप्रायःसास्वादनगुणस्थाने विरमति सति एताः पञ्चविंशतिप्रकृतयो बन्धमासृ(श्रि)त्य व्यवच्छिद्यन्त इति।। १०२।। तथेह सूत्रादौ सप्तमगाथायाम्- उत्तरपयडि तह दुहा, हेऊ य कसाय पइगुणं चउरो। (मनःस्थिरीकरणम्-७) इत्यनेनोत्तरप्रकृतयो मूलहेतवः उत्तरहेतवः कषायाश्चेति चत्वार्यपि स्थानानि निजनिजद्वारेषु पृथिव्यादिगृहत्रयोदशके यथासम्भविषु गुणेषु यथा भूदगतरूणां सूत्राभिप्रायेण गुणद्वये, तेजोवाद्यो(य्वो)मतद्वयेऽपि मिथ्यात्वे, विकलासञ्जितिरश्चां गुणद्वये, सञ्जितिरश्चां गुणपञ्चके, नराणां गुणचतुर्दशके, नारकदेवानां गुणचतुष्टये प्रत्येकं वक्तव्यानीति कृत्वा प्रथम(म) भूदकतरूणां सूत्राभिप्रायेण मिथ्यात्वे, कर्मग्रन्थाभिप्रायेण गुणद्वये चोत्तरप्रकृतिबन्धसङ्ख्यामाह [मूल] निरयसुराउविउव्वियछक्काहारदुगतित्थ मुत्तूण । बंधहिं नवअहियसयं, भूदवणा उत्तरा पयडी ।।१०३।। कम्मा भूदगतरूसुं, साणे चउणवइ सा तिरिनराऊ । नरयतिगूणा मिच्छंतसोल मुत्तुं नवसयाओ ।।१०४।। व्याख्या] द्वे अपि सुगमे। नवरं मिथ्यात्वे मतद्वयेऽपि नवाधिकं शतम्।।१०४।। अथ तेजोवायूनां द्वीन्द्रियादिदेवान्तसर्वपदानां च गाथापञ्चदशकेन प्रकृतिबन्धसङ्ख्यामाह[मूल] गइतस अनरतिगुच्चं, पंचहियसयं तहा विगलमिच्छा । नवहियसयमह साणा, चउणवई दो वि जह पुव्विं ।।१०५।। १ मिथ्यात्वे कर्मग्रन्थाभिप्रायेण
SR No.009261
Book TitleMan Sthirikaran Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Rupendrakumar Pagariya
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy