________________
मन:स्थिरीकरणप्रकरणम्
बावीसमित्यादि। बावीसं दसिगाओ, दुवार दुध(ख)तेर दुन्नि चउदसिगा।
इत्यादिना द्वारगाथाद्वयेन (गा. ६, ७) अत्रैव प्रकरणे पूर्वप्रदर्शितेन यका यका भणितपूर्वास्तामिति सम्बन्धः।
अथ भागानहप्रकृतिचतुर्दशकस्य बन्धद्वयं गाथाषट्केनाहअंतो कोडाकोडी, तित्थाहाराण जिट्ठठिइबंधो। अंतमुत्तमबाहा इयरो संखिजगुणहीणो।।४८।।
(सूक्ष्मार्थविचारसारोद्धार-७०, शतकप्रकरणभाष्यम्-३४०,३५६) ननु तीर्थकरनाम्नः सागरान्तःकोटीकोटीरूपा स्थितिरुक्ता, सा च तिर्यगतिगमनं विना न पूर्यते, तिर्यग्गतौ च तिरिया तित्थाहारमिति ( ) वचनात् तस्य बन्धनिषेधः, तत्कथमिदम् ? अत्रोच्यते, तीर्थकरनाम हि द्विधाअवश्यवेद्यम् अनवश्यवेद्यं च। तत्र यदवश्यवेद्यं त्रिभुवनाधिपत्यरूपतया तत्तिर्यग्गतौ न प्राप्यते। अनवश्यवेद्यं तु प्राप्यत एव, यतस्तत्प्रभृतस्थितिकम् अपि अपवर्तनाकरणेन लघुस्थितिकं क्रियते, उद्वर्तनया वा तदन्यप्रकृतित्वेनावस्थाप्यते। तदुक्तंजमिह निकाइय तित्थं, तिरियभवे तं निसेहियं संतं। इयरंमि नत्थि दोसो, उव्वट्टोवट्टणासज्झो।।
(पञ्चसङ्ग्रहः-२५१) निकाचितमित्यवश्यवेद्यं = तीर्थकरभवात्प्राक् तृतीयभवे यदृढबन्धनीकृतम् इत्यर्थः। तस्य च द्विधाप्यबाधा = बन्धोत्तरमनुदयावस्थारूपा अन्तर्मुहूर्तमाना। ततः परं दलिकरचनायाः सद्भावेनावश्यं प्रदेशोदयस्य सम्भवादिति। केचित्पुनः तीर्थकरनामान्तर्मुहूर्तादूर्ध्वं कस्यचित्प्रदेशत उदेति, तदुदये चाज्ञैश्वर्यादय ऋद्धिविशेषा अन्यजीवेभ्यो विशिष्टतरास्तस्य भवन्तीति सम्भावयाम इति व्याचक्षते।
इयरो इत्यादि। तीर्थकराहारकद्विकयोरुत्कृष्टस्थितिबन्ध एव सङ्ख्येयगुणहीनः सन् इतरो जघन्यस्थितिबन्धो भवतीति। इदमुक्तं भवति- यावता पल्योपमासङ्ख्येयभागेन ऊनः सागरोपमकोटीकोटीरूप उत्कृष्टस्थितिबन्ध उक्तः स एव तेनैव पल्योपमासङ्ख्येयभागेन सङ्ख्येयगुणेन हीनः सन् इतरो भवतीति।
अथ चतुर्गतिगतजीवानां यथासम्भवं गतिचतुष्टयविषयं आयुर्बन्धद्वयमाह- तत्रापि प्रथमं जघन्यम्। सुरनिरयमिहुणवजा, जीवा बंधंति आउलहु खुड्डं। सुरनिरया अंतमुहू, दसवाससहस्समिहुणा वि।।४९।।
सुरनारकमिथुनकवर्जिताः सङ्ख्यातायुषः सर्वतिर्यञ्चो मनुष्याश्च तिर्यङ्मनुष्यगतिद्वयविषयं क्षुल्लकभवग्रहणरूपम्, देवाः पृथिव्यब्वनस्पतिसञ्जितिर्यक्सज्ञिमनुष्यविषये, नारकास्तु सझितिर्यक्सझिमनुष्यविषयम् एवान्तमुहूर्तरूपम्, मिथुनका अपि भवनपतिव्यन्तरविषयं वर्षसहस्रदशकरूपं जघन्यं परभवायुर्बध्नन्तीति।
अथ तेषामेव उत्कृष्टमाहइगविगल पुव्वकोडिं, परायु अमणो असंखपल्लंसं। संखाओ तिरियमणुया, तिरिनरविसयं तु पल्लतिग।।५०।।
(शतकनामा पञ्चमप्राचीनकर्मग्रन्थः-३४) ते दोवि तितीसयरे, निरए मणुया सुरेसु तेतीसं। तीरियाठार सुरेसु, जं तग्गइ जा सहस्सार।।५१।। एकेन्द्रियाः पञ्चापि विकलेन्द्रियास्त्रयोऽपि भवस्वभावात् तिर्यङ्मनुष्यविषयम् आयुर्द्वयमेव बध्नन्ति।
१ 'अंतो कोडाकोडी' इत्यादि गाथायाम् ।