________________
मन:स्थिरीकरणप्रकरणम्
तच्चोत्कृष्टं पूर्वकोटिरूपम् अमनस्कोऽसझितिर्यगुत्कृष्टतश्चस्तसृष्वपि गतिषु पल्यासङ्ख्येयांशरूपम्, तथा सङ्ख्यातायुषः सझितिर्यञ्चो मनुष्याश्च तिर्यगतौ मनुष्यगतौ च पल्यत्रयरूपम्, नरकगतौ तु एते उभयेऽपि त्रयस्त्रिंशदतररूपम्, देवगतौ पुनः मनुष्याः त्रयस्त्रिंशदतररूपम्, तिर्यञ्चस्तु सहस्रारान्तगामित्वात् सागराष्टादशकरूपम् उत्कृष्टं परभवायुर्बध्नन्तीति सम्बन्धः। सम्मूर्छिममनुष्यास्तु जघन्यतोऽपि उत्कृष्टतोऽपि अन्तमुहूर्तरूपमेव परभवायुर्बध्नन्तीति। अथ मिथुनकनारकसुरानधिकृत्याह
तिरिनरमिहुण सुराउं, एकं चिय तं परं तिपल्लमियं। सुरनिरया उको (क्को)सं, पुव्वकोडि तिरिनरेसु [पुण।।५२।।
तत्र तिर्यञ्चो नराश्च मिथुनका सुरायूरूपमेकमेवायुर्बध्नन्तीति। तच्च पल्यत्रयमितम्। एते भवस्वभावादेव तिर्यङ्मनुष्यनारकायूंषि न बध्नन्त्येव। देवनारका पुनः तिर्यग्गतौ मनुष्यगतौ वा पूर्वकोटिरूपमेवायुर्बध्नन्तीति। एतेऽपि भवस्वभावादेव देवनारकायुषां द्वे अपि न बध्नन्तीति।
अथ सम्यक्त्वमिश्रयोर्बन्धद्वयमाहसम्मे लहु अंतमुहू, समहिय छावट्ठि अयर गुरुठिई। अंतमुह दुह विमीसे, भणियं पन्नवण तीवीसपए।।५३॥ तच्चेदम्सम्मत्तवेयणिजस्स पुच्छा, गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं छावट्ठि सागरोवमाणि साइरेगाई। तथा- सम्मामिच्छत्तवेयणिजस्स जहन्नेणं अंतोमुहुत्तं उक्कोसेण वि अंतोमुत्तमिति।
(प्रज्ञापना पद-२३,सूत्र-१७००) सम्यक्त्ववेदनीयस्य यतो(त्) जघन्यतः स्थितिपरिमाणमन्तर्मुहूर्तमुत्कर्षतः षट्षष्टिसागरोपमाणि सातिरेकाणि तत् वेदनमधिकृत्य वेदितव्यम्, न बन्धमाश्रित्य, सम्यक्त्वसम्यग्मिथ्यात्वयोर्बन्धाभावात्। मिथ्यात्वपुद्गला एव हि जीवेन सम्यक्त्वानुगुणविशोधिबलतस्त्रिधा क्रियन्ते। तद्यथा- सर्वविशुद्धा, अर्धविशुद्धा, अविशुद्धाश्च। तत्र ये सर्व विशुद्धास्ते सम्यक्त्ववेदनीयव्यपदेशं लभन्ते, ये अर्धविशुद्धास्ते सम्यङ्मिथ्यात्ववेदनीयव्यपदेशमविशुद्धा मिथ्यात्ववेदनीयव्यपदेशमतो न तयोर्बन्धसम्भवः। यदा तु तेषां सम्यक्त्वस्य सम्यग्मिथ्यात्वपुद्गलानां च स्वरूपतः स्थितिश्चिन्त्यते तदा अन्तर्मुहूर्तोनसप्ततिसागरोपमकोटीकोटीप्रमाणा वेदितव्या। सा च तावती यथा भवति तथा कर्मप्रकृतिटीकायां सङ्क्रमकरणे भावितेति ततो अवधार्या। इति प्रज्ञापनासूत्रयोर्मलयगिरिवृत्तिः।
अथोपसंहारमाहएगिदिमाइबंधो, दुहावि लिहिओऽडवन्नपयडिसए। पन्नवणतिवीसपया तिउद्देसा सिरिमहिंदेहि।।५४।। गतं प्रसङ्गागतम्।। ७४।। ७५।।
अथ प्रस्तुततमिदम्- कर्मत्रये एकेन्द्रियादीनां बन्धस्थितिद्वयमुक्तम्। तत्र च लघुस्थितौ किञ्चिदूनत्वमभाणि तच्चोनत्वं कियत्प्रमाणमित्याह
मूल] कम्मा असंखुगिंदिसु, संखो विगलामणेसु ऊणत्ते ।
पन्नवण तिवीसपए, सव्वेसि असंखु पल्लंसो ।।७६।। व्याख्या] कार्मग्रन्थिका एकेन्द्रियाणां स्थितेरूनत्वे पल्यासोयं भागम्, विकलामनसां तु पल्यस्य सङ्ख्येयं भागमाहुर्भणन्ति च