________________
मन:स्थिरीकरणप्रकरणम्
५७
अथ सञ्ज्ञिभिर्बध्यमानस्य मूलप्रकृत्यष्टकस्य गाथाद्वयेन, उत्तरप्रकृतीनां च चतुश्चत्वारिंशच्छतस्य गाथाषट्केन च बन्धस्थितिद्वयमाह
मुत्तुमकसाय हुस्सा गाहा ।
(मुत्तुमकसायि हुस्सा, ठिइ वेयणियस्स बारसं मुहुत्ता । अट्ठट्ठनामगोयाण, सेसयाणं मुहुत्तंतो।।४३।।) मोहे कोडाकोडीउ सत्तरी गाहा ।
(मोहे कोडाकोडीउ, सत्तरई वीस नामगोयाणं । तीसियराण चउण्हं, तेतीसयराई आउस्स ।। ४४ । (प्रवचनसारोद्धार - १२८०, सूक्ष्मार्थसारोद्धार -६४)) दंसण चउविग्घावरणलोहसंजलणहुस्स ठिईबंधो। अंतमुहुत्तं ते अट्ठ जसुच्चे बारसयसाए ।। ४५ ।। (सूक्ष्मार्थसारोद्धार-६४)
दर्शनानि चत्वारि चक्षुरचक्षुरवधिकेवलरूपाणि, विघ्नानि पञ्च, दर्शनानि चत्वारि चक्षुरचक्षुरवधिकेवलरूपाणि, विघ्नानि पञ्च, आवरणानि मतिज्ञानावरणादीनि पञ्च ।
दो मासा अद्धद्धं, संजलणतिगे पुमट्टवरिसाणि । बावीसा पयडीणं, लहु ठिइ सन्नीण खवगाणं ।। ४६ ।।
(सूक्ष्मार्थविचारसारोद्धार-७४, कर्मप्रकृति-७७)
द्वौ मासौ तस्यार्धं मासस्तस्याप्यर्धं पक्षः सञ्ज्वलनक्रोधमानमायास्थितिः ।
सेसे सए इगारे, वेउव्विक्कारसे य सन्नीणं । अयरंतकोडिकोडी, लहुठिइ नियमा इहं जम्हा ।। ४७ ।।
वैक्रियैकादशकस्य एकविकलेन्द्रिययोः बन्धाभावात् प्रथमतोऽपि अमनस्ककृत एव बन्धो भवतीति विशेषज्ञापनाय पृथगुपादनम् । तच्च वैक्रियैकादशकमेतद्- वैक्रियशरीरम्, वैक्रियाङ्गोपाङ्गम्, वैक्रियः सङ्घातः, वैक्रियवैक्रियबन्धनम्, वैक्रियतैजस-वैक्रियकार्मण-वैक्रियतैजसकार्मणरूपं बन्धनचतुष्टयमिति, देवगतिदेवानुपूर्वी, नरकगतिः, नरकानुपूर्वी चेति । ननु द्वाविंशत्यधिकस्य प्रकृतिशतस्य जघन्याद् अतरान्तःकोटीकोटीरूपाद् अपरः कोऽपि लघुतरः स्थितिबन्धः कस्मान्नोक्त ? उच्यते, इह जम्ह त्ति । इह स्थितिबन्धाधिकारे यस्मात् कारणात् सर्वप्रकृतिविषये सञ्ज्ञिनामभव्यानां भव्यानामपि सञ्ज्ञिमिथ्यादृष्टीनां अतरान्तःकोटीकोटीतो हीनतरोऽपरः सर्वोऽपि स्थितिबन्धो निषिद्धोऽस्तीत्याह
सन्नीणमभव्वाणं, भव्वाणं वि सन्निमिच्छदिट्ठीणं । अयरंतकोडीहीणु, [अत्थि ?] जहन्नो वि नो बंधो।। नन्वयमपि निषेधः कुतः ? उच्यते, सार्धशतकात्।
तथाहि
अयरंतो कोडाकोडीउ अहिगो सासणाइसु न बंधो। हीणो न अपुव्वंतेसु नेव य अभव्वसन्निमि।। (सूक्ष्मार्थविचारसारोद्धार-८१)
अत्र पादत्रयं सुगमम्, तुर्यस्तु व्याख्यायते । नेव येत्यादि । अभव्ये सञ्ज्ञिन्यायुर्वर्जितानां सप्तानां कर्मणां सागरोपमान्तःकोटीकोटीतो हीनो बन्धो नैव भवति । नेव यत्ति चशब्देन भव्येऽपि मिथ्यादृष्टौ सञ्ज्ञिनि न भवतीत्याचष्टे इति तद्वृत्तिः । अथ पूर्वोक्तः चतुश्चत्वारिंशच्छतसङ्ख्याप्रकृतीनां गुरुस्थितिमाह
चउयाले पयडिसए, गुरुयं तं सन्निणो कुणंति ठिइं। बावीसं दसिगाओ इच्चाइण जा भणियपुव्विं ।। ४७ ।। अत्र पूर्वार्द्धेन तां स्थितिं कुर्वन्तीत्युक्तम्, तत्र सा किंरूपेत्याह