________________
७६
तव जीवितदर्शनतोऽप्यधिका प्रभुमूर्तिनिभालनजातमुदः । हृदये विलसन्ति सदा मम तत् प्रमितेरुचितं रुचितर्कबलम् ॥४३॥
मम नामनि नाम निरूपयसि दिविजातसुखानि सुजात ! कथम् । अभिधानमिदं बत शब्द इति नहि भावमयं न हि जीवितवद् ॥४४॥
अथ नाम विभोरुपदीक्रियते गुणगौरवसंस्मृतिहेतुतया । प्रतिमामपि सद्गुणधारणया भगवद्भजनार्थमुपैषि न किम् ॥४५॥
अगमिष्य उपोढमहाघभरां
गृहितां परिहाय मुमुक्षुपथे । अजनिष्य उपाश्रितपञ्चयमो मम तोषमनन्तमवर्ण्यतमम् ॥ ४६ ॥
परमद्य तु मद्यतुलामितया गिरया कुगुरोर्मम दुःखकरः । कथमत्रभवानभवद्भगवत्प्रतिमालघुताकरणग्रहिलः ॥४७॥
तव दारसमक्षमहं व्यथयाऽ कथयं न किलोचितमेतदपि । स्थितिपालनमिच्छति साधुजनो जलराशिसहोदरतां घटयन् ॥४८॥
श्रीमाणिभद्रमहाकाव्यम् ४