________________
अनुयोगितभावमुपासितवान् समयज्ञतयाऽनघतां लभते । प्रतियोगितभावमपास्तफलं बत द्रव्यमुपाश्रयतेऽज्ञतरः ॥१३।।
इशिताववधाशयमावहतामुपदेशविरुद्धमिवाचरणम् । कुसुमाम्बुविराधनसाधनया कथमर्हणया शुभधर्ममतिः ॥१४॥
मृतकेन रतिक्रियया सुरतं न बुधानुमतं बत दोषहतम् । प्रतिमासु जडास्वपि पुष्पफलैघनसारजलैर्न फलेग्रहिता ॥१५॥
यदि कल्पतरु डचित्रपटे रचितो ददते फलमेकमपि । ननु मूर्तिगतो भगवानरजाः शममातनुते मम तर्हि परम् ॥१६॥
हृतकर्मतनुर्भगवानितवान् शिवमेनमथो वपुषैव पुनः । प्रतिमासु निबद्धतयाऽऽकलयनभवं भववासिनमारचयेद् ॥१७॥
कुसुमाऽशनचित्रनिरीक्षणकृत् किमु सौरभतृप्तिभुगस्ति जनः । भगवचनामनुसेवितवान् किमु चिद्घनमेकरसो भजते ॥१८॥
श्रीमाणिभद्रमहाकाव्यम् ४