________________
मम मातरितीव निशम्य वचस्तव हास्यमिहास्यगतं भवति । सुभगस्मितमुत्सुकनेत्रमिदं मुखमेव तवाऽखिलशर्मकरम् ॥७॥
मम पद्मयतेर्वचनादितरन हि कारणमर्चनबाधनकृत् । गुरवो ह्यतिशायितमातृपदा मम बोधकरा इति तेऽस्तु रतिः ॥८॥
गुरुपार्श्वगतेन मयाऽवगतं प्रतिमाऽर्चनमुत्कटपापमयम् । रविगैव तमोहतदृक्षु मुधापथचारणवारणकारणता ॥९॥
श्रुणु तद्वचसामणुभागमहं कथयामि यथामति तर्कयुतम् । शिशुखेलनकैरिव मद्वचनैस्तव चेतसि मा प्रभवन्तु रुषः ॥१०॥
प्रतिमास्ववचस्सु न जीविततासहचारितरागदशा भवति । तदभावमतिस्तदभाववति रचनीयतया कथमेव भवेत् ॥११॥
अथ जीववियोगवति प्रभवेदितरागदशा जडवस्तुभरे । गृहभित्तिषु पात्रकुलेषु तथा वसनेषु कथं हि न पूज्यपदम् ? ॥१२॥
श्रीमाणिभद्रमहाकाव्यम् ४