________________
4
६२
सर्गः ४
(तोटकवृत्तम्)
करपङ्कजपूजितमातृपदे नतमस्तकलक्षितमातृकरे । क्षणमौनवति स्वयमाविरभून्मधुरा वचनावलिरिष्टगुणा ॥१॥
धरणीतलसंस्थितिमान् तनुजः स्थिरतामिव धारयति स्म हृदि । चतुराणि वचांसि मुदा रचयन् निजमातरमित्थमुदाहृतवान् ॥२॥ मम नेत्ररुचिस्त्वमविस्खलिता मम वाग्रचना त्वमसि स्फुरिता । तनुशक्तिरसि त्वममात्रमिति: त्वमिहैकतमा सकलाऽसुकला ॥३॥ कृपया तव मां प्रभवत्यनघा गुणसम्पदुपावृतशर्मरसा । तव नामनिनादनिवेशितया ऽ शितया सुधयेव सुखं सततम् ॥४॥ कृतरोमविकस्वरता भवतीपिकपञ्चमकस्वरतारसुवाक् । इतरश्रवणेष्वरतां हि श्रुतिं
विदधाति तथा स्व- रतां प्रकृतिम् ॥५॥
तव वत्सलचित्तसरोजरसे मकरन्दमनस्कमवेहि सुतम् । मुहुरेव मुहुर्मम ते सविधे समवेतसुखस्य तु खेन तुला ॥६॥
श्रीमाणिभद्रमहाकाव्यम् ४