________________
६०
विहाय देवार्चनपुण्यभारं न मे रसः कुत्रचनाsत्र लोके । स एव रागो मम भावनायां विबाधनामातनुते मदङ्ग ! ॥ ६१ ॥
त्वमर्हतामर्हणमत्यजो यद्दिनात्ततो मे विरतिः पयस्सु । अखण्डिताऽद्यावधि वर्तते मां तवाङ्गनासङ्गतिरत्र चाऽस्ति ॥६२॥
श्रुत्वा मातृवचांसि भक्तहृदयो निःस्तब्धतामागतस्तन्द्रायामिव निष्पतन्न समभूत् प्रत्युत्तरोच्चारकः । किङ्कर्तव्यविमूढतामुपगतः शून्यत्वमापन्नवान् चाणक्योपमधीबलोऽपि नितमां मौनं समालम्बितः ॥ ६३ ॥
श्रीमाणिभद्रमहाकाव्यम् ३