________________
ममाऽस्ति गोप्यं सुभगे ! किमु त्वद् यतोऽस्ति मद् हन्त ! तवापि गूढम् । अयं हि योगोऽस्ति मिथोऽस्मदीयो विशुद्धिमान् दर्पणदर्पधारी ॥४३॥
सर्मिणी त्वं मम जीवनस्य समग्रविस्तारमुपावृताऽसि । प्रभा यथा चन्द्रमसोऽविभिन्ना नभस्तलालङ्करणं तनोति ॥४४।।
अलं वचोभिर्मम मौनमस्तु प्रतीक्ष्यसे त्वं वचनार्थमत्र । मदीयशब्दैस्तव चेन्न शाता त्वदीयशब्दैर्मम साऽस्तु देवि ! ॥४५।।
निशम्य पत्युर्वचनानि तस्या बभूव वेगो द्विगुणोऽश्रुपाते । तथापि बाष्पत्रुटदक्षराणि विचक्षणोवाच वधूर्वचांसि ॥४६॥
भवान् मयाऽनेकभवान् सहाऽभूभवत्सहायः शुभवान् ममाऽऽत्मा । त्वयाऽनुसेव्यान् विभवानुपास्य भवे भवे यावदियां भवान्तम् ॥४७।।
मनोस्थानां शरणं त्वमेव क्षणे क्षणे संस्मरणं त्वमेव । मुदामरं विस्तरणं त्वमेव व्यथापदां संहरणं त्वमेव ॥४८॥
श्रीमाणिभद्रमहाकाव्यम् ३