________________
स्वकक्षमासाद्य विराममुद्रामुपाश्रितोऽपृच्छदयं स्वपत्नीम् । न दुग्धपाकग्रहणं कृतं किम् ? तनौ न शाता तव वर्तते किम् ? ॥२५॥
अवाप्य तां भावगभीरपृच्छां नता मुखेनाऽभवदङ्गना सा । स्रवद्भिरेवाशुजलैरमुष्या अवाप्तवानुत्तरमिभ्यवर्यः ॥२६॥
अतर्कितैरश्रुजलैरवाक्यः सुकोमलालिङ्गनबन्धनैस्ताम् । अदात् समाश्वासनमुत्तमोऽसौ हरेत् खलु स्पर्शगिराऽपि दुःखम् ॥२७॥
विशालवक्षोधृतमस्तकायाः शिरोजभारो बहुपुष्यगन्धी । सकम्पनस्कन्धचरत्करस्य बभूव तस्य श्वसनेन धन्यः ॥२८॥
गृहे कदाचिन्न हि दुःखमित्थं विलोकितं केनचिदित्यकाण्डम् । स्वकीयदुर्भाग्यमिवोच्चरन्ती तदश्रुपीडा न विराममाप ॥२९॥
गवाक्षपाल्यामुपवेशयन् तां तदंसमीषत् समपीडयत् सः । तदाननालोकनविह्वलाक्षो निरूचिवान् प्रीतिरसार्द्रवाचम् ॥३०॥
श्रीमाणिभद्रमहाकाव्यम् ३