SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ प्रणामिदौवारिककुन्तनामकृतप्रयाणस्समवाप बाह्यम् । सुराज्यलक्ष्म्या नतनेत्रदृष्ट्या स सम्मतः किं गृहदर्शनार्थम् ।।७।। सभापरित्यागिनि पूर्वमस्मिन् रवे रुचस्स्वर्णरुचो निपेतुः । ततो गलत्स्वेदकणैस्स गौरै श्चकार सर्वा अपि तास्स्ववर्णाः ॥८॥ प्रतिस्वरूपेण भुवं श्रितेन सितेतरणाऽनुगतः स्वपीठे । व्यतीतमायुष्कमिव स्मरन् स बभौ किलाऽऽत्मस्मृतिजागरूकः ॥९॥ गतस्स यावच्चरणैः पुरस्ताद् विहङ्गिकायानभृतस्तु तावत् । महान्ति पुण्यानि किलाऽस्य गातुमुपस्थिता दण्डभृतोऽप्यदण्डाः ॥१०॥ सुयोगवाही शुभदृष्टिपातो ग्रहो यथोच्चः जनिपत्रिकायाम् । निषत्तिभागत्र विराजते स्म समुन्नतैर्भाग्यभरैस्समय॑ः ॥११॥ पथे सरन्ती शिबिका जनाढ्ये समुद्रनीर विललास नौवत् । स्थिरासनः श्रेष्ठिवरस्सुवासा न मध्यमस्तम्भपदं बभार ? ॥१२॥ श्रीमाणिभद्रमहाकाव्यम् ३
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy