________________
सर्गः ३
( उपेन्द्रवज्रावृत्तम्)
अथैकदा राजसभानिवृत्तः शुभस्सुधीरो बलवान् प्रतस्थे । नरेन्द्र-मन्त्रीश्वर-वाहिनीशैस्समं महः स्वं विकिरन् समन्ताद् ॥१॥ नयानुकूलो धनकोटिशाली करार्जितश्रिर्दुतदत्तसम्पद् । प्रशस्यनीतिस्स बभौ सभायां किमर्थशास्त्रस्य नवाऽवतारः ॥२।।
शभासने स्वर्णमये विमुक्ते विवर्णता तत्र सुरालिकेऽभूत् । अगण्यताराखचितेऽपि खे स्यात् विनेन्दुना दर्शतिथिप्रचारः ॥३॥ सभामहास्तम्भविकीर्णकन्याशतानुभावोल्लसनस्मितेन । अमुष्य वक्त्रोपहितेन भित्तिः त्रपाऽभ्यसूयाभिरिवाचलाऽभूत् ॥४॥ सुधानिषेकं सततं वचोभिस्तथाऽकरोदेष सभाजनेषु । यथा व्रजन्तं तमवेक्षमाणो जनो बभूवाऽऽहरशून्यनासः ॥५।। पदे पदे द्वारसमीपतायां यदेव धैर्यं गुणवान् स दधे । ततोऽप्यपट्योऽस्य यशोऽवदाता अधीरतां वातहता विजग्मुः ॥६॥
४०
श्रीमाणिभद्रमहाकाव्यम् ३