________________
याचनाकरजनाऽनुपस्थितेः खेदितो वनविहारचारणैः । गुप्तवेशरचनैरनेकशो गुह्यदानमलमादधादयम् ॥३१॥
नेति वाक्यममुना स्वकोशतो दूरदूरमपसारितं ततः । ओष्ठयोरिव तदेति कर्णयोनैव तत् कृतिकताऽस्य पश्यताम् ॥३२॥
वासुदेवमुखकृष्णताकर पूरितं निजसुवर्णधामभिः । अस्य गेहममलैः सुदामभिरक्षतैस्सुकलितैस्सुहृज्जनैः ॥३३॥
व्यस्मरन्न समुदीरितोऽर्चनैनम्रतां सकललोकसत्कृतैः । पुण्यतोऽपि गुणगौरवादसौ धन्यतां समधिकामिवावहन् ॥३४॥
तद्गुणानपरिमेयकान् हरिः पश्यतीव जलधेस्तले स्थितः । वेलयोच्छलदनन्तवीचिभिनित्यमेव गणयन् त्रपावशः ॥३५॥
सायकैरिव सुदीर्घदर्शिभिलक्ष्यवेधिभिरमध्यपातिभिः । साहसिक्यसुहितैरनूनकै(बलं जयति तत्त्वचिन्तनैः ॥३६।।
३
४
श्रीमाणिभद्रमहाकाव्यम् २