SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ श्रियाऽम्बुसङ्घट्टनिवासखिन्नया विनिश्चिताऽऽनन्दधियाऽत्र संस्थितिः । नदीपथेनाऽऽगतया तया गृहे गृहे पदन्यासकृताऽतिनर्तितम् ॥४३॥ सुखेन सख्येन च सज्जसृष्टिना बलेन बोधेन च बद्धबुद्धिना । धुता च दानेन च दिव्यदर्शिना पुरेण देवस्थलमस्ति निर्जितम् ॥४४॥ भवन्ति युध्येव जनस्य मार्गणा महात्मनामेव पुरेऽत्र भिक्षितम् । किलाऽन्त्यकाले निधनत्वलक्षणा निरङ्कशास्सन्ति यतोऽत्र सम्पदः ॥४५॥ अघेषु दोषेषु भवन्ति भीतयो धनेषु वा व्यापरणेषु नीतयः । वचस्सु चैवं रचनासु रीतयस्ततो हि मिष्टा वनितासु गीतयः ॥४६॥ परस्य दुःखानि विलोक्य यज्जनस्ततोऽधिकं दुःखमनन्तमाश्रयेद् । इदं विचार्यैव विधिर्दयावशात्पुराद्धि दुःखानि निराकरोदितः ॥४७॥ न दोषवन्तो मधुरा प्रसादिताः सदौजसोऽनेकरसा अलङ्कृताः । सदा सदौचित्यमया ध्वनीहिता वसन्ति सन्तोऽत्र हि काव्यसन्निभाः ॥४८।। श्रीमाणिभद्रमहाकाव्यम् १
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy