________________
प्रशस्तिः
हरिदासो गुणवास: पत्नी चैतस्य श्रीसुशीलेति । वैष्णववर्यो पूर्णामायातो द्वारिकानगरात् ॥१॥
जातावनयोः पुत्रौ सुरेशोऽनिल इति क्रमाद् धन्यौ । जायाऽऽद्यस्य जयाऽऽसीद् इतरस्य च कोकिला पत्नी ॥२॥
भूपेशश्चामितश्चेति प्रकाशश्चाद्ययोस्सुताः । नयनश्चान्ययोः पुत्रः पुत्री चाऽऽशा प्रियंवदा ॥३॥
मोक्षमार्ग महासार्थमेकच्छत्रेण पालयन् । सत्यसूर्यः महासूरी रामचन्द्रो महाप्रभुः ॥४॥
बोधं दत्वा सुरेशस्य पुत्रस्यान्त्यद्वयस्य च । आर्हतीमनघां दीक्षां ददावध्यात्मवासिताम् ॥५॥
निरीहो निरहङ्कारः श्रीसंवेगरतिः पिता । गीतार्थो प्रीतिमान् बन्धुः श्रीवैराग्यरतिर्मम ॥६॥
प्रशमरतिविजयोऽहं गुरुताताऽग्रजकृपावशोऽरचयम् । मणिभद्रमहाकाव्यं शुभं तपागच्छभक्तिरसात् ॥७॥
दीक्षाया कतमे वर्षे कृतं तन्न विशिष्यते । यत् कृतं तत् कृतं कीदृग एतदेव विशिष्यते ॥८॥
विपुलदर्शितयाऽत्र सरस्वतीकरुणया रचिते सुहृदावलिः । सरसदर्शनतोऽमृतवर्षया वसतु कान्तमणाविव चन्द्रमाः ॥९॥
१६८
प्रशस्तिः