________________
इति तमभिशपन्तं जेत-यक्षाधिराज चरणनिहितशीर्षों भैरवौ निन्दितस्वौ । अविरतपदसेवा-मर्थयामासतुर्यद् । प्रभुरनवधिशक्तिर्वन्दनैरेव तुष्येद् ॥३१॥
गुरुपदकमलिन्यां भृङ्गभावं गतेन मुनिकुलहननाना-मन्तभावो निदिष्टः । पुनरपि मधुराभि-रिभराख्यात् गुरुं स न हि रतिविशदासु स्याद्विरामः कथासु ॥३२।।
तव गुरुवर ! वाञ्छां मामकीनां वदामि मम मदवचनानां त्वं क्षमादायकस्स्याः । मम तव चरणानां सेवयाऽयं जयोऽभूत् सततमथ जयोऽयं शिष्यसङ्घस्य ते स्याद् ॥३२॥
यदि यतिरभिधाने योजयेच्छब्दमेकं विजय इति तदा तं नैव बाधा भवेयुः । प्रकृतविजयशाखः श्रीतपागच्छ एष गुरुवर ! मयकैव स्तादधिष्ठानशाली ॥३३॥
अहमपि लघुपिण्डस्थापितोऽवग्रहेषु मुनिभिरविरतं चेद् धर्मलाभं श्रुणोमि । तदिह तव गुरो ! मे तारकोऽयं प्रसादः भवति निहतपूर्वोत्पन्नपापावसादः ॥३४॥
गुरुरवददथैनं धन्यभाग्योऽसि देव ! गुरुवचनसरागो वर्तसे शिष्यतुल्यः । त्वयि विरतिवियुक्ते साधवस्सर्वदैव प्रणमति हितलाभं मङ्गलं पूरयन्तु ॥३५।।
१६२
श्रीमाणिभद्रमहाकाव्यम् ९