________________
स्नेहानुबद्धमनसा न विलापवाक्यैरस्माकमर्हति विपन्नजनेषु शोकः । आजीवनं श्रमणधर्ममुपावृतानां मृत्यावकालघटिते वयमूनसत्त्वाः ॥४३।।
आहारपानविरता अनधीतशास्त्रा आवश्यकेष्वपि किमुत्सुकताऽनपेताः । साधं परं मतिविनाशनिबद्धमत्र पश्यन्त एव नवमृत्युभयाज्जडाः स्मः ॥४४॥ युग्मम्
किं मानवेतरबलं विकटं क्षिणोति जिज्ञासयेति भवतीमहमाजुहाव । ज्ञातेषु वैरिषु जयस्सुकरो जगत्यामज्ञाततैव समरे परमोऽस्ति शत्रुः ॥४५॥
रोगस्य योग्यमुपचारमपेक्षते यो योग्यं निदानमयमिच्छतु पूर्वमेव । वैद्ये निदर्शयति चामयमूलहैतौ नारोग्यलाभमुपयातु सुखादयं किम् ॥४६॥
एतन्निशम्य विहितावधिबोधयोगा देवी जगाद भगवन् तव नास्ति दोषः । नैवापराधरचना भवतां मुनीनां कश्चिद् विरोधचतुरो विपदो वितेने ॥४७॥
चेद् गूर्जरेषु भगवान् विहरेद् द्रुतं तद् वन्यां लभेत दृढवारणमिष्टकारि । त्यक्त्वा मुनि विमतविह्वलमत्र शीघ्र निर्यातु देव ! मरुतः प्रति गूर्जरात्रम् ॥४८॥
१४४
श्रीमाणिभद्रमहाकाव्यम् ८