________________
१३८
इत्याशयामृतरसाचमनैः पवित्रं प्रकृष्टपीडनमपि क्लमकारि नासीत् । विस्त्राविशोणितसरस्यपि तस्य कायो मन्दं श्वसित्यवचनोऽनयनावलोकः ॥ २५ ॥
खण्डयेन विजनेऽस्य विदारितस्य देहस्य वीक्ष्य नितमां विषमामवस्थाम् । प्राणा यियासव इतोऽपि च सङ्गदोषादिच्छन्ति तावदपरां त्रिदशामवस्थाम् ॥ २६ ॥
एकस्तरोरुदपतत् सहसाऽथ पक्षी पक्षात् पपात गगने लघु बर्हमेकम् । दूरं ययुः क्वचन तत्कलगुञ्जितानि तस्मिन् वने विलसिते स्थिरपर्णकाले ॥ २७ ॥
अत्रान्तरे तु गुरवोऽपि विपत्तिबद्धा जाता स्मशानघटितैः खरमन्त्रतन्त्रैः । सूर्यं नभस्सु शशिनं ग्रसति प्रभाढ्यं राहोरनुग्रबलिनः किमु नोग्रदंष्ट्रा ॥ २८ ॥
आवेशचारिकतयाऽधमनृत्यक्ता धीनाशवातुलतया परिदीर्णवस्त्राः । आक्रन्दितैरशनपानविनाशनैश्च शिष्या गुरोर्विमतयो क्रमशो बभूवुः ॥ २९ ॥
साधुश्चुलुम्पति रजोहरणस्य सूत्रं तज्जस्यति स्पशति घूर्णति तद्विहाय । व्यात्तेक्षणः पदविनाशितकुम्भमुञ्छन् खेलत्यनेकशकलैर्डिपति प्रहारैः ॥ ३० ॥
श्रीमाणिभद्रमहाकाव्यम् ८