________________
एकोऽस्मि नास्ति मम कश्चन बान्धवादिस्सर्वः स्वकर्मवशगो भवतीह जीवः । यद् यस्य यत्र नियतं रचितं नियत्या रूपान्तरं भवति नैव कदाचिदस्मिन् ॥१९॥
शेषाहिशीर्षपरिणामिसुवर्णहर्यो देवेन्द्रवर्ण्यविभवो वनराजसत्त्वः । अभ्यावृतो बुधजनैरनिशं विनफ्रेवन्यामनन्यशरणोऽस्त्यधुनेति चित्रम् ॥२०॥
यातव्यमेव जगतो बत जातजातैः शोकातुरैरपि समाधिवरैर्न भेदः । शोकादिना व्रजति दुर्गतयो भवन्ति साम्येन यातवति सद्गतयः स्फुरन्ति ॥२१॥
मद्घातपातककृतः सुखिनो भवन्तु तत्पातकं क्षयमुपैत्वनुतापशक्त्या । मा भाविनि प्रकृतसत्करणेषु पापैः पूर्वैरमीषु घटयन्तु मयीव बाधाः ॥२२॥
तीर्थङ्करेषु भगवत्सु शरण्यबुद्धिस्सिद्धेषु साधुषु समस्ति समस्तधर्मे । पुण्येषु तेषु विहितेषु मम प्रमोदः पापेषु हन्त मनसि प्रचुरो विषादः ॥२३॥
भूयां नमस्कृतिपदेष्वनुबद्धचेताः शत्रुञ्जयस्मरणमेव रमेत चित्ते । आदीश्वरोऽवतरतु क्षणमेकमक्ष्णोः राजादनी मम मनस्युपयातु पुण्या ॥२४।।
१३६
श्रीमाणिभद्रमहाकाव्यम् ८