________________
धूपेन सौरभवता शुचिदीपकेन नाथं कराग्रनिहितेन न पूजयामि । नैवेद्यकैः फलकुलैरथ तण्डुलैश्च नो तर्पयामि सुखदं खलनाशिताशः ॥७॥
तत्याज दुःस्थवचनैरहमर्चनां यां सा मामवद्यवशमद्य जहाति दूरम् । माता किमु त्यजति पालितमङ्कखेलैः पुत्रं नितान्तमवमानिनमस्तरत्या ॥८।।
धन्यां नमामि मम मातरमुत्तराणि यस्या अवाप्य भगवन्तमहं जगाम । त्यक्त्वा ममैव हितदृष्टिभिरुत्तमान्नं मां रक्षति स्म भववर्धकपातकेभ्यः ॥९॥
याऽसुं तनुं मम ददौ प्रणमामि तस्याः पादारविन्दमकलङ्कमवर्णनीयम् । दत्तं तया यदपि तत्तदिमां हि दद्यां यान्तोऽसवोऽत्र चरणेषु समर्पिता: स्युः ॥१०॥
अर्धाङ्गिनी मम समग्रमुपाधिभावं स्वीकृत्य याऽप्यनुनयैरिह मामनेनेक् । सर्वस्वमर्पितवती निरपेक्षभावैस्तां धर्मशुद्धहृदयामनुमोदयामि ॥११॥
यन्नावदं तदपि साऽनुगता श्रुणोति यन्नास्मरं तदपि साधयतीव मह्यम् । नाकुर्वि यन् मम यशोऽपि ददाति तस्य मत्तोऽधिका मयि रतिर्विशदा प्रियायाः ॥१२।।
१३२
श्रीमाणिभद्रमहाकाव्यम् ८