________________
सर्गः ८
(वसन्ततिलकावृत्तम्)
चौरा वनीचरसमानतया जडास्ते वित्तेच्छवो निजहितश्रियमेव जहः । घातैस्त्रिभागहतदेहमिमं विलोक्य नेशुर्विमूढमनसो वनगह्वरेषु ॥१॥ शीर्षं कबन्धमहहा पदपिण्डिकाञ्च तीक्ष्णप्रहारघटना विदधौ विभक्ताः । तत् पालिकोज्जयनसिद्धगिरिस्मृतेन चित्तत्रयीं दधति काऽप्युपमानिताऽस्मिन् ॥२।। तस्मिन्नकाण्डपतिते प्रचलन्ति पीडा सृग्निस्सृति-श्वसनरोध-विचेतनाद्या । निर्भीकता-निरघता-निरहंयुताभिः प्रत्यागतात्ममननो व्यमशद् विविक्ते ॥३॥ क्वाऽऽत्मीयलोकसुभगा जनिभूमिरस्ति क्वाऽऽत्मोद्धृताय कुशला गुरवो मरुस्थाः । भूयानहं च वनभूविलुठच्छरीरः क्वैकान्तरौद्रगहने पतितोऽल्पभाग्यः ॥४॥ यान्त्यां श्रियां न मम सन्ति शुचः कदाचित् मृत्यौ मयि प्रभवति द्रवणोऽस्मि नाऽहम् । त्रुट्यद्बलो न गिरिराजसमक्षमेतुं शक्तोऽस्मि हन्त मम तेन विषादयोगः ॥५॥ राजादनीनिकटचैत्यविराजमानं देवाधिदेवमुपयामि न मारुदेवम् । प्रक्षालयामि भगवन्तमहं न हस्तैः श्रीखण्डपुष्परचनैर्न तनोमि पूजाम् ॥६॥
१३०
श्रीमाणिभद्रमहाकाव्यम् ८