________________
१२८
सार्थवैनायिकैरौक्षकैरौष्ट्रकैमर्गमुत्पिञ्जलं दृब्धकोलाहलं । शान्तिकामो विहायैत्यरण्यैरयमेकमर्हन्तमेव स्मरन् मानसे ॥ ४९ ॥
शुक्लधौताम्बरं स्वच्छप्रावारकं शीर्षचेलाण्डकं कर्णपूराङ्कितम् । बाहुकेयूरकं चाङ्गुरीमुद्रिकं मध्यसौवर्णसूत्रं वने गामिनम् ॥५०॥
शीघ्रमभ्रान्तमश्रान्तमानन्दितं शान्तमुत्कण्ठितं मौनमग्रेदृशम् । श्रीमदादीश्वरध्यानबद्धाशयं सद्गतिं सतिं सन्मतिं सन्नतिम् ॥५१॥
चिन्त्यमानागरादिव्यसामीप्यतो बद्धरोमाञ्चमौत्सुक्यनद्धं मुखे । पादनिक्षेपणैः कर्मकोटिक्षयङ्कारिणं मार्गमभ्यन्तरं गामिनम् ॥५२॥
साधुवत् कायकष्टेन रुद्धाश्रवं योगिवद् विस्मृताशेषसम्बन्धकम् । धर्मवद् गौरवेणोचितेनोज्ज्वलं तीर्थवन्मङ्गलोच्चारणैः पावनम् ॥ ५३ ॥
श्रीशत्रुञ्जयनाममन्त्रजपनं नाभेयनिध्यायिनं यात्रायामविकल्पमात्मनिरतं शब्दान् ददुः केचन । एकाग्रोऽर्हति नोत्तरादरमधात्तावद्धि शस्त्रैरमुं जनुर्निष्प्रतिकारिणं धनहराः क्रूरा अकस्मादमी ॥५४॥
(पञ्चकम् )
श्रीमाणिभद्रमहाकाव्यम् ८